________________ 141 982 ] धातुपारायणे भ्वादयः (1) '978 णल गन्धे' / गन्धः अर्दनम् / " पाठे० " 2 / 3 / 97 इति नत्वे नलति / णोपदेशत्वात् " अदुरुपसर्गा० " 2377 इति णत्वे प्रणलति, परिणलति / ननाल, नलिता / " वा ज्वला०" 5 / 1162 इति णे नालम् , नाला पद्मादीनां वृन्तम् , नाली, नाडी. प्रणालम् , प्रणाली प्रणालिका, प्रणाडिका / अचि नलम् , नलः, नडः / " आतो०" 5 / 1 / 76 इति डे नलदः / '979 बल प्राणनधान्यावरोधयोः' / प्राणनं जीवनम् , धान्यम् अवरुध्यते यत्र इति धान्यावरोधः कुमूलः / ओष्ठयादिः / बलति, बबाल / " अनादेशादे." 4 / 1 / 24 इति एत्वे द्वित्वाभावे च बेलतुः, बेलुः, बलिता / " वा ज्वला." 5 / 1 / 62 इति णे बालः / स्त्रियां " वयस्यनन्त्ये" 2 / 4 / 21 इति उयपवादे अजादित्वाद् आपि बाला / अचि बल:, बलम् / उणादौ "दृषभृ०" (उ० 207) इति अते बलतः कुमूलः / वलि संवरणे [11807] दन्त्यौष्ठयादिः / वलते, ववले / वलण प्राणने घटादिश्च इत्येके, वलयति // ___980 पुल महत्त्वे'। पोलति, पुपोल, पोलिता / " वा ज्वला." 5 / 1 / 62 इति णे पोलः; पक्षे " नाम्युपान्त्य" 5 / 1154 इति के पुलः, पुलम्, विपुलम् / उणादौ " ध्रुधून्दि०" (उ० 29) इति कित्यके पुलको रोमाञ्चः / " पापुलि० " ( उ० 41 ) इति किति इके पुलिकः तुच्छधान्यम् / " कल्यलि." (उ० 246 ) इति इन्दकि पुलिन्दः / " वृजितुहि०" (उ० 283) इति किति इने पुलिनम् / " नाम्युपान्त्य० " ( उ० 609) इति किदिः, पुलिः / " अगिविलि०" ( उ० 660 ) इत्यस्तिकि पुलस्तिः / अयं तुदादिः अपि इत्येके, पुलति / पुलण समुच्छाये [ 9 / 122] पोलयति // 981 कुल बन्धुसंस्त्यानयोः' / संस्त्यानं संघातः / कोलति, चुकोल, कोलिता / " वा ज्वला." 5 / 1162 इति णे कोलः सूकरः, कोलं बदरम् / " नाम्युपान्त्य०" 5 / 1 / 54 इति के कुलम् , नकुलः / ककोलमिति तु कचेः " पिञ्छोल." ( उ० 495) इत्योले निपातनात् / उणादौ " कुलिपिलि." (उ० 476 ) इति किति आले कुलालः // 982 पल 983 फल 984 शल गतौ' / पलति. पपाल, पलिता / " वा ज्वला०" 5 / 1 / 62 इति णे पालः / अचि पलं मांसम् / कर्मणोऽणि __1. 'वलि संवरणे, वलत: कुशूल: ' इत्युणादि विवरणे //