________________ 140 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 972 अथ लान्ताश्चतुर्दश // * 972 चल कम्पने' / चलति, चचाल, चलिता / " वा ज्वला०" 5 / 1 / 62 इति णे चाल: / अचि चलः / “चराचर०" 431113 इति निपातनात् चलाचलः / यङ्लुपि चाचलः, चञ्चलः / कम्पने घटादित्वात् णौ ह्रस्वे चलयति शाखाम् / अन्यत्र चालयति सूत्रम् / “चालशब्दा०" 5 / 2 / 43 इत्यने चलनशील: चलनः / घनि चालः / चलण् भृतौ [9 / 134 ] चालयति / / ___ +973 जल घात्ये ' / घात्यं जडत्वम् , अतैष्ण्यम् इत्यर्थः / जलति, जजाल / " वा जला०" 5 / 1162 इति णे जालम् / अचि जलम् , डलयोरैक्यं जडः / व्यवस्थितविभाषत्वाद् मिन्नेऽर्थे प्रत्ययौ / घजि जालम् / घनन्तस्यापि नपुंसकत्वं लोकात् / जलण अपवारणे [ 9 / 120 ] जालयति // 974 टल 975 ट्वल वैक्लव्ये'। विक्लव एव वैक्लव्यम् / टलति, ट्वलति, टटाल, टट्वाल / " वा ज्वला०" 5 / 1 / 62 इति णे टालः, ट्वालः / अचि टलः, बलः / टलितुम् , ट्वलितुम् // '976 ष्ठल स्थाने ' / “पः सो." 2 / 3 / 98 इति सत्वे स्थलति, तस्थाल, स्थलिता / " वा बला" 5 / 1 / 62 इति णे स्थालम् / गौरादित्वाद् याम् स्थाली / अचि स्थलम् / स्त्रियां "भाजगोण" 2 / 4 / 30 इति ङ्याम् स्थली अकृत्रिमा, स्थला अन्या / " विकुशमि० " 2 / 3 / 28 इति षत्वे विष्ठलम् , कुष्ठलम् , शमिष्ठलम् / “कपेर्गोत्रे" 2 / 3 / 29 कपीनां स्थलमिव स्थलमस्य कपिष्ठलः / पोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे तिष्ठालयिषति / अपोपदेशोऽयमित्यन्ये // 977 हल विलेखने' / विलेखनं कर्षणम् / हलति, जहाल, हलिता / "वा ज्वला० " 5 / 1 / 62 इति णे हालः / हाला सुरा / अचि हलम् , हलाहलम् / उणादौ " पदिपठि० " ( उ० 607) इति इ., हलि:, हडिः // 1. धान्ये इति काशकृत्स्न: (क्षी. त. टि. पृ. 116 ) // 2. " चलशब्दा०" इति पाठो लघुवृत्यादिषु बहुषु ग्रन्थेषु // 3. वैप्लव्ये इति क्षीरस्वामी (क्षी. त. टि. पृ. 116) // 4. हडिः काष्ठयन्त्रविशेषः (शब्दकल्पद्रुम भा. 5) //