________________ 971 ] धातुपारायणे भ्वादयः (1) ____ अथ मान्तौ // . '969 टुवम् उगिरणे' / उगिरणं भुक्तस्योर्ध्वगतिः / वमति, वाम / " अनादेशादे०" 4 / 1 / 24 इति एत्वद्वित्वाभावयोः " न शशददवा० " 4 / 1 / 30 इति प्रतिषेधे " जभ्रम" 4 / 1 / 26 इति वा प्रतिप्रसवे वेमतुः, ववमतुः / " वा ज्वला० " 5 / 1162 इति णे " मोऽकमि०" 4355 इति अत्र वमेवजनात् वृद्धिप्रतिषेधाभावे वामः, अचि वमः / वमिता / “अमोऽकम्य०" 4 / 2 / 26 इति हस्वे णौ उद्वमयति / " ज्वलह्वल० " 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे वमयति, वामयति / णौ नन्द्याद्यने वामनः / णके वामकः, घनि वामः, अङ्गादित्वान्मत्वर्थीये ने वामनः / “जीणदृक्षि०" 5 / 272' इति इनि वमनशीलो वमी / विवादथुः, वमथुः / ऊदित्वात् क्त्वि वेट, वान्त्वा, वमित्वा / वेट्त्वात् क्तयोः नित्यमिडभावे प्राप्ते " श्वसजप० " 4 / 4 / 75 इति वेटि वान्तः, वान्तवान् , वमितः, वमितवान् / उणादौ " कमिवमि०" (उ० 618) इति णिदिः, वामिः स्त्री / " इतो० " 2 / 4 / 32 इति वा ङ्याम् वामी अश्वा / नायमूदिदित्यन्ये // _ '970 भ्रम चलने' / " भ्रासम्लास० " 3 / 4 / 73 इति वा श्ये भ्रम्यति, भ्रमति, बभ्राम / " जुभ्रम०" 4 / 1 / 26 इति वैत्ये भ्रमुः, बभ्रमुः / ऊदित्वात् क्त्वि वेट , भ्रान्त्वा, भ्रमित्वा / वेट्त्वात् क्तयोर्नेट् , भ्रान्तः, भ्रान्तवान् / " वा ज्वला०" 5 / 1 / 62 इति णे ज्वलादिपाठवलात् “मोऽकमि०" 4 / 3 / 55 इति प्रतिषेधाभावे " णिति " 4 / 3 / 50 इति वृद्धौ भ्रामः / अचि भ्रमः / तृचि भ्रमिता / उणादौ "ऋच्छिचटि०" (उ० 397) इति अरे भ्रमरः / “तृभ्रम्य" ( उ० 611 ) इति इ: भृमश्च, भृमिर्वायुः / बाहुलकाद् भृमादेशाभावे भ्रमिः भ्रमः / “भ्रमिगमि० " ( उ० 843 ) इति डिदुः, भ्रः / भ्रमूच अनवस्थाने [ 391 ] भ्राम्यति // ___ अथ रान्तः // '971 क्षर संचलने' / सकर्मकश्चायमकर्मकश्च / क्षरति गौः, पयो मुश्चतीत्यर्थः / क्षरति जलं स्रवतीत्यर्थः / चक्षार, क्षरिता / "वा ज्वला०" 51 / 62 ..' इति णे क्षारः, गौरादित्वाद् याम् क्षारी / णे ध्यणि कृतं क्वचिदित्येके / अचि क्षरः, अक्षरः //