________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९६६सर्गादपि णे निषादः, विषादः / अचि सदः / विपि भीरुष्ठानादित्वात् षत्वे आदिषत् , उपसत् , पुष्करसत् / संपदादिक्विपि उपनिषत् / परिषीदन्त्यस्याम् इति परिषत् / ग्रहादित्वाणिनि सादी, निषादी / " दाट्धेसि०" 5 / 2 / 36 इति रौ सादनशील: सदः / घनि सादः, निषादः, विषादः / स्त्रियां "समज०" 5 / 3 / 99 इति क्यपि निषद्या / आधारे "व्यञ्जनाद्" 5 / 3 / 132 इति घजि "घञ्युपसर्ग." 32286 इति दी प्रासादः / उणादौ " हुशामा०" (30 451) इति त्रे सत्त्रं यज्ञः / “कृगृ० " ( उ० 441 ) इति वरटि निषद्वरः पङ्कः / " मन्" ( उ० 911) इति मनि सम / " कमिवमि०" ( उ० 618) इति णिदिः, सादिः अश्वारोहः सारथिश्च / " अस्" ( उ० 952 ) इत्यसि सदः सभा // '967 शलं शातने' / शातनं तनूकरणम् / “शदेः शिति" 3341 इत्यात्मनेपदे "श्रौति०.". 4 / 2 / 108 इति शीयादेशे शीयते / शितोऽन्यत्र परस्मैपदे शशाद / अनुस्वारेचान्नेट ; शत्स्यति / लुदिचादङि अशदद / गौ " शदिरगतौ शात् " 4 / 2 / 23 पुष्पाणि शातयति / गतौ तु गाः शादयति / "वा ज्वला" 5 / 1262 इति णे शादः तृणपकौं / अचि शदः शटितः, क्षत्रियापशदः, विशदः / णौ " करणाधारे " 5 / 3 / 129 इत्यनटि पलाशशातनो दण्डः, पलाशशातनी यष्टिः / उणादौ " शदेरूच्च" ( उ० 394 ) इति रे शूद्रः / " तङ्कि-वङ्कि" ( उ० 692) इति रिः, शद्रिः वज्रः / “जनिहनि० " (उ० 809) इति रौ तादेशे च शत्रुः // अथ धान्तः // - '968 बुध अवगमने' / अवगमनं ज्ञापनम् / बोधति, बुबोध, बोधिता / " वा ज्वला" 5 / 1162 इति णे बोधः / पक्षे " नाम्युपान्त्य" 5 / 154 इति के बुधः / णौ “गतिबोधा० " 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वे बोधयति शिष्यं धर्मम् / " अजातेः०" 5 / 1 / 154 इति “णिन्चावश्यका० " 5 / 4 36 इति वा णिनि प्रतिबोधी, गम्यादित्वात् वय॑ति साधुः / पनि बोधः / उणादौ " युयुजि०" ( उ० 277 ) इति किति आने बुधान: आचार्यः / अनुस्वारेदयमित्येके, तन्मते अभौत्सीत् , बोद्धा, राज्ञाम् बुद्धः / बुधिंच ज्ञाने [.3 / 119 ] बुध्यते //