________________ 966 ] धातुपारायणे भ्वादयः (1) इति मनि निपातनात् णौ पाप्मा / पतण गतौ वा [9 / 312 ] अदन्तः, "शीश्रद्धा०" 5 / 2 / 37 इत्यालौ पतयालुः // अथ थान्तास्त्रयः सेटश्च // 963 पथे। पथति, पपाथ, पथिता / एदिचात् " व्यञ्जनादे." 4 / 3 / 47 इति वा वृद्धः “न विजागृ०" 4349 इति प्रतिषेधे अपथीत् / " वा ज्वलादि०" 5 / 1162 इति णे पाथः / पक्षे अचि पथः / उणादौ " पथिमन्थिभ्याम् " ( उ० 926) इति इनि पन्थाः // . '964 क्वथे निष्पाके' / क्वथति, चक्वाथ, क्वथिता / एदित्वात् " व्यञ्जनादे०" 4 / 3 / 47 इति वा वृद्धः " न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अक्वथीत् / " वा ज्वला०" 5 / 1 / 62 इति णे क्वाथः / अचि क्वथः / पत्रि क्वाथः / " अतोऽनेकस्वरात् " 7 / 2 / 6 इति मत्वर्थीयेके क्वाथिका यवागूः // . 965 मथे विलोडने' / मथति, ममाथ, मथिता / एदिचात् “व्यअनादे." 4 / 3 / 47 इति वा वृद्धेः “न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अमथीत् / " वा ज्वला०" 5 / 1162 इति णे माथः; पक्षे अचि मथः / " मथलपः" 5 / 2 / 53 इति घिनणि प्रमथनशीलः प्रमाथी / घनि प्रमाथः अध्वपरिमाणम् / उणादौ " वाश्यसि० " ( उ० 423) इत्युरे मथुग / मन्था इति तु मनातेः [" पथिमन्थिभ्याम् " ( उ० 926 ) इति किति इन्प्रत्यये ] // .. अथ दान्तौ // '966 षल विशरणगत्यवसादनेषु'। विशरणं शटनम् , अवसादः अनुत्साहः / " श्रौति०" 4 / 2 / 108 इति सीदादेशे सीदति / "पः सो." 2 / 3 / 98 इति सत्वे ससाद / " सदोऽप्रते:०" 2 / 3 / 44 इति षत्वे निषीदति, विषीदति, निषसाद, विषसाद / सनि निषिपत्सति विषिषत्सति, प्रतेस्तु षत्वाभावे प्रतिसीदति / " नाम्यन्तस्था० " 23 / 15 इति पत्वे सिषत्सति / लुदित्वादङि आसदत् / अनुस्वारेवान्नेट , सन्नः, सन्नवान् / " गृलुप०" 3 / 4 / 12 इति गर्वार्थ यङि सासद्यते / “वा ज्वलादि०" 51162 इति णे सादः, बाहुलकात् सोप . 1. गथे विलोडने इति काशकृत्स्न: (का. धा. पृ. 107 ) //