________________ 136 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 960 5 / 1 / 62 इति णे ज्वालः, ज्वाला / पक्षे अचि ज्वलः / “भूषाक्रोधार्थ." 5 / 2 / 42 इत्यने ज्वलनशीलो ज्वलनः / उणादौ "निष्कतुरुष्को" (उ० 26) इति के निपातनाद् उल्का / "कञ्चुकांशुक० " ( उ० 57) इत्युके निपातनाद् उल्मुकम् // अथ चान्तः // * 961 कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' / संपर्चनं मिश्रता / प्रतिष्टम्भो रोधनम् / विलेखनं कर्षणम् / कोचति, चुकोच, कोचिता, संकुचितः / णौ क्ते संकोचितः / " वा ज्वलादि०" 5 / 162 इति णे कोचः / " नाम्युपान्त्य. " 5 / 1154 इति के कुचः / घजि क्ते सेट्वात् फत्वाभावे उत्कोचः, संकोचः // .. अथ तान्तः // - '962 पत्ल 963 पथे गतौ' / पतति, पपात, पेतुः / तृदिचादङि " श्वयत्य०" 4 / 3 / 103 इति पप्तादेशे अपप्तत् / " नेमादा." 2 / 3 / 79 इति नेणत्वे प्रणिपतति, प्रण्यपतत् , अटो धात्वादित्वात् व्यवधानाभावः / सनि " इवृध० " 4 / 4 / 47 इति वेट , अनिट्पक्षे " रमलभ०" 4 / 1 / 21 इति स्वरस्येत्वे द्वित्वाभावे च पित्सति / इटि पिपतिषति / यङि " वञ्चसंस०" , 4 / 1 / 50 इति पूर्वस्यान्तो नी, पनीपत्यते / भावकर्मणोरेव प्राप्तस्य ध्यणो " भव्यगेय०" 5 / 17 इति कर्तरि वोत्पत्ती आपात्यः, पक्षे आपात्यमनेन / " वा ज्वलादि०" 5 / 1 / 62 इति णे पातो राहुः, पक्षे अचि पतः पक्षी / घनि उत्पातः, निपातः / “वेटोऽपतः" 4 / 4 / 62 इति पतो वर्जनादिप्रतिषेधाभावे पतितः, पतितवान् / " उदः पचि०" 5 / 2 / 29 इति इष्णौ उत्पतनशीलः उत्पतिष्णुः / " लषपत०" 5 / 2 / 41 इत्युकणि प्रपातुकः / “भूषाक्रोधार्थ० " 5 / 2 / 42 इत्यने पतनः / " नीदाव०" 5 / 2 / 88 इति त्रुटि पत्त्रम् / " विशपत० " 54 / 81 इति णमि गेहानुप्रपातमास्ते / उणादौ "शलिबलि." ( उ० 34) इत्याके पताका / " आङः पणि" (उ० 39) इति इके आपतिकः श्येनः / “पतितमि०" (उ०९८) इत्यङ्गे पतङ्गः पक्षी / "वीपतिपटिभ्यस्तनः" ( उ० 292) पत्तनं पुरविशेषः / " वृगनक्षि०" ( उ० 456 ) इत्यत्रे पतत्रं पत्रम् / “पतिकुलूम्यो णित् " ( उ० 479 ) इत्याले पातालम् / " पतेः सलः" ( उ० 504 ) पत्सलः प्रहारः / “कमिवमि०" (उ० 618) इति णिदिः, संपातिः गृध्रराजः / “सात्मनात्मन्छ" (उ० 916)