________________ 960 ] धातुपारायणे भ्वादयः (1) '958 शृङ् शब्दकुत्सायाम् ' / तालव्यादिः / शब्दकुत्सा पायुशब्दत्वात् / शर्धते, शशृधे / धुताबङि अशृधत् अशर्धिष्ट / " वृद्भ्यः स्यसनोः" 3 / 3 / 45 इति वात्मनेपदाभावे " न वृद्भ्यः" 4 / 4 / 55 इति नेट् , शर्त्यति, शर्धिष्यते, शिशृत्सति, शिशर्धिषते / उदित्वात् क्त्वि वेट , शुद्धवा, शर्धित्वा / वेट्त्वात् क्तयोनेंट, शृद्धः, शुद्धवान् / घनि शर्धः, शजहा माषाः / उणादौ " डीनीवन्धि० " ( उ० 325) इति डिम्बे शिम्या बीजकोशी / " नृतिगृधि० " ( उ० 844 ) इति किदः, शृधः शर्धनः // 959 कृपौङ सामर्थे ' / “ऋर० " 2 / 3 / 99 इति लत्वे कल्पते / लत्वे चक्लृपे / द्युताय कि अक्लपत् , अकल्पिष्ट / " वृद्भ्यः स्यसनोः" 33 / 45 इति " कपः श्वस्तन्याम् " 3346 इति च वात्मनेपदाभावे " न वृद्भ्यः" 4 / 4 / 55 इति नेट् / आत्मनेपदे तु औदित्वात् वेट् , कल्प्स्यति, कल्पिष्यते, कल्प्स्यते, चिक्लृप्सति, चिकल्पिषते, चिक्लृप्सते, कल्प्तासि, कल्पितासे, कल्प्तासे, कल्प्तुम् , कल्पितुम् / वेट्त्वात् क्तयोर्नेट , क्लप्तः, क्लृप्तवान् / णौ कल्पयति / " ऋदुपान्त्या०" 5 / 1141 इति अत्र कृपिवर्जनात् " शकि-तकि०" 5 / 1 / 29 इति ये कल्प्यम् / जौ अचि कल्प: / यडि चलीक्लृप्यते / णौ क्ते अवकल्पितः / " व्यजनाद्" 5 / 3 / 132 इत्याधारे घजि क्लृप्यन्ते यस्मिन् प्राणिनां भोगोपभोगा वृद्धिहानिभ्यामिति कल्पः कालविशेषः उत्सपिण्यवसर्पिणीसमुदायः। उणादौ " तकृकृपि०" ( उ० 151 ) इति कीटे कृपीटं हिरण्यं जलं च / कृपण अवकल्कने [9 / 179 ] कल्पयति / कृपण दौर्बल्ये [ 9 / 323 ] अदन्तः, कृपयति // 'वृत्' / वर्तनम् वृत् , द्युतादिः 23 वृतादिः 5 चान्तर्गणौ वर्तितौ समाप्ती इत्यर्थः / वृधेः क्विपि वृत् , वर्धितौ पूर्णी इत्येके // . अथ ज्वलादयो यजादेः प्राक् षद्-शबँ-क्रुशं-रुह-रभिं वर्जा: सेटश्च वर्णक्रमेण निर्दिश्यन्ते / तत्रापि पूर्वाचार्यानुरोधेन पूर्वम् // 960 ज्वल दीप्तौ' / “शेषात् परस्मै" 33100 इति परस्मैपदे ज्वलति, जज्वाल, ज्वलिता / गौ घटादित्वात् इस्वे प्रज्वलयति / " ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे ज्वलयति ज्वालयति, " वा ज्वलादि०" 1. वृद्भ्य इति मु० // 2. एतस्या लोके खेजडी इति प्रसिद्धिः / (नि. शे. टी. 73 ) // 3. तुलना, (क्षी. त. पृ. 104 ) //