________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९५५/वृन्ताकम् / " वृतेस्तिकः" ( उ० 75) वर्तिका चित्रकरोपकरणम् / "ऋज्यजि०" (उ० 388) इति किति रे वृत्रः / " विदिवृतेर्वा " (उ० 610 ) इति वा किदिः, वृतिः कण्टकावरणम् , निर्वृतिः सुखम् , वर्तिः दीपदशा / “सदिवृत्य." ( उ० 680) इत्यनौ वर्तनिः पन्थाः / " मन्" ( उ० 911) इति मनि वर्त्म / वृतूचि वरणे [3 / 113 ] वृत्यते / वृतण भासार्थः [ 9 / 217 ] वर्तयति / / अथ दान्तः // * '956 स्यन्दौङ स्रवणे' / स्यन्दते, सस्यन्दे / द्युताद्यङि अस्यदव , अस्यन्दिष्ट / “निरभ्यनोश्च०" 2 / 3 / 50 इति वा पत्वे निःष्यदन्ते, निःस्यन्दते, अभिष्यन्दते, अभिस्यन्दते / “वृद्भ्यः" 33 / 45 इति स्यसनोर्वात्मनेपदम् , तदभावे च “न वृद्भ्यः" 4 / 4 / 55 इति नेट, स्यन्त्स्यति / आत्मनेपदे तु औदित्त्वाद् वेट् , स्यन्दिस्यते, स्यन्त्स्यते, सिस्यन्त्सते, सिस्यन्दिषते, सिस्यन्त्स्यते / यडि सास्यद्यते / यङ्लुपि सास्यन्दीति, सास्यन्ति / क्त्वीडभावे " स्कन्द-स्यन्दः" 4 / 3 / 30 इति किवाभावे स्यन्वा / इटि तु " क्त्वा " 4 / 3 / 29 इति किवाभावे स्यन्दित्वा / यपि प्रस्यन्ध / तादेरेव क्त्वः कित्त्वाभाव इत्येके, तन्मते किल्वे नलुकि प्रस्यद्य / वेट्त्वात् क्तयोर्नेट् , स्यनः, स्यन्त्रवान् / " स्यदो जवे" 4 / 2 / 53 इति पनि निपातनाद् गोस्यदः, अश्वस्यदः / जवादन्यत्र तैलस्यन्दः, घृतस्यन्दः / उणादौ " वसिरसि० " (उ० 269) इत्यने स्यन्दनः / “स्यन्दि-सृजिभ्यां सिन्धरजौ च" (उ० 717) इत्युः, सिन्धुः // , अथ धान्तौ . .957 वृधू वृद्धौ' / वर्धते ववृधे / द्युताद्यङि अवृधत् , अवर्धिष्ट / " वृद्भ्यः स्यसनोः" 33145 इति वात्मनेपदम् , तदभावे "न वृद्भ्यः " 4 / 4 / 55 इति ने., वय॑ति, वर्धिष्यते, विवृत्सति, विवर्धिषते / ऊदित्वात् क्त्वि वेट् , वृद्ध्वा, वर्धिन्वा, वेटत्त्वात् क्तयोर्ने, वृद्धः, वृद्धवान् / तौ तिकि वा वृद्धिः / णौ नन्याधने वर्धनः, सुखवर्धनः / " भ्राज्यलंकग" 5 / 2 / 28 इति इष्णौ वर्धिष्णुः / उणादौ " भीवृधि०" ( उ० 387 ) इति रे वर्धः / वृधण भासार्थः [ 9 / 220 ] वर्धयति // 1. वृत्रः-दानवः बलवान् रिपुश्च ( उ. वि.)॥ . .. 2. कण्टकशाखावरणम् ( उ. वि.) //