________________ 152 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 1000 अथ घटादयो वर्णक्रमेणाऽऽस्वादिसमाप्तेर्वक्ष्यन्ते, तत्र घटेः पूर्वाचार्यप्रसिद्धया पूर्व निर्देशः // ___1000 घटिप चेष्टायाम् ' / चेष्टा ईहा / इदित्वात् " इडितः०" 3 / 3 / 22 इत्यात्मनेपदे घटते, जघटे / सनि जिघटिषते / यङि जाघट्यते / ते घटितम् / णौ " घटादेई स्वो०" 4 / 2 / 24 इति ह्रस्वे घटयति / “-दीर्घस्तु वा जिणम्परे " अघाटि, अघटि, घाटिष्यते, घटिष्यते, घाटघाटम् घटंघटम् / “णिवेच्या०" 5 / 3 / 111 इत्यने घटना / पित्त्वाद् अङि घटा / इह घटादीनामनेकार्थत्वेऽपि पठितार्थेषु एव घटादिकार्यविज्ञानम् , तेन उद्घाटयति, “कमलवनोद्घाटनं कुर्वते ये" [ सूर्यशतक, 2], "प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव" [किरातार्जुनीयम् , 2 / 46 ], उद्घाटितः कपाटः / श्रापयति, स्मारयति, दारयति, नाटयति, फाणयति, छादयति, प्रमादयति, चालयति इत्यादौ चेष्टाद्यर्थाभावे " घटादेई स्वो०" 4 / 2 / 24 इति इस्वो न भवति / विघटयति इति तु अजन्तस्य अङन्तस्य वा “णिज् बहुलं नाम्नः०" 3 / 4 / 42 इति करोत्यर्थे णिचि रूपम् / अन्ये तु ये घटादयोऽन्यत्र पठिताः तेषां योऽर्थ उपात्तः तत्रैव इस्वादिकार्य, ये तु अत्रैव पठयन्ते तेषां सामान्येनाऽनेकार्थत्वाद् इति ब्रुवते; तन्मते विघटयति इति चेष्टाभावे ह्रस्वः स्यादेव / कमलवनोद्घाटनम् , प्रविघाटयिता, समुत्पतन् इत्यादि तु चुरादौ भासार्थस्य घटेः णिचि यमि-ज्ञा-वहिवर्जितस्य घटादिकार्यनिषेधाद् ह्रस्वाभावे रूपम् , यथा शमिणो णिचि निशामयते, चेष्टार्थस्यैव वा घनन्तस्य णिचि / इत्थं च " उन्नामिताखिलमहीधरकन्दरस्य" [ ], चौरस्योत्क्राथयति इत्यादि सिद्धम् / संक्रामयति इति तु संक्रामं करोति इति णिचि / " शकष०" 5 / 4 / 90 इति तुमि घटते भोक्तुम् / अचि घटः / इह घटादौ केऽप्यत्रैवाधीताः प्रकृत्यादिकार्यभाजो न्याय्यशवप्रत्ययाश्च / अन्ये तु स्वस्थानोक्तकार्यभाजः पिचहूस्वाद्यर्थमनूद्यन्ते इति यथायथमुत्प्रेक्ष्यम् // अथ जान्तः // 1001 क्षजुङ गतिदानयोः' / उदित्वान्ने क्षमते, चक्षजे, क्षजिता / ते क्षत्रितः / " तेटो०" 5 / 3 / 106 इत्यः क्षमा / णौ क्षअयति / घटादिपाठवलाद् 1. तुलना, क्षी. त. पृ. 105 //