________________ 947 ] धातु पारायणे भ्वादयः (1) . 131. इति वेटप्रतिषेधे मिन्नमनेन, मेदितमनेन, प्रमिन्नः, प्रमेदितः, अत्रेटि " न डी० " 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् गुणः / लिहायचि मेदो म्लेच्छः / “भलिभासि०" 5 / 2 / 74 इति घुरे मेदनशीलो मेदुरः / उणादौ “चिमिदि०" (उ० 454) इति किति त्रे मित्रम् / “अस" (उ० 952) इति असि मेदः वसा / जिमिदाच स्नेहने [3 / 37 ] मेद्यति / मिदुण् स्नेहने [9 / 90] मिन्दयति // __945 मिक्ष्विदाङ 946 मिश्विदाङ मोचने च'। चकारात् स्नेहने / श्वेदते, चिविदे / द्युताद्यङि अश्विदत् , अश्वेदिष्ट / जीवाद् वर्तमाने क्तः, विष्णः, अत्रादिचान्नेट् / " नवा भावारम्भे" 4 / 4 / 72 इति वेदप्रतिषेधे श्वेदितमनेन, विष्णमनेन, प्रक्ष्वेदितः, प्रविण्णः, प्रक्ष्वेदितवान् , प्रक्षिण्णवान् / एविटि " नडी०" 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् " लघो०" 4 / 3 / 4 इति गुणः / डान्तोऽयमित्येके / श्वेडः विषः, वेडा रवः / जिश्विदाच मोचने च [3338 ] क्ष्विद्यति // / '946 जिश्विदाङ्'। "प: सो०" 2398 इति सत्वे स्वेदते / " नाम्यन्तस्था० // 2 // 3 // 15 इति षत्वे सिविदे / द्युताधङि अस्विदत् अस्वेदिष्ट / जीवात् सति क्ते स्विन्नः, स्विन्नवान् ; अत्रादित्वान्नटू / " नवा भावारम्भे" 4 / 4 / 72 वेडभावे स्विन्नमनेन, स्वेदितमनेन, प्रस्विनः, प्रस्वेदितः, अत्रेटि " नडी० " 4 / 3 / 27 इति किवाभावाद् गुणः / “वो व्यञ्जनादेः०" 4 / 3 / 25 इति क्त्वासनोर्वा किल्वे स्विदित्वा, स्वेदित्वा, सिस्विदिषते, सिस्वेदिषते, अत्र "णिस्तोरेवा." 2 / 3 / 37 इति नियमान्न षत्वम् / “णिस्तोरेवा०" 2 / 3 / 37 इत्यत्र स्विदेवर्जनाद् णो सनि षत्वाभावे सिस्वेदयिषति / घजि स्वेदः / विदांच गात्रप्रक्षरणे [3 / 35 ] स्विद्यति // अथ भान्ताः पञ्च // 947 शुभि दीप्तौ' / शोभते, शुशुभे / यतायङि अशुभत् , अशोभिष्ट / "नाम्युपान्त्य०" 5 / 1 / 54 इति के शुभम् / णौ नन्याधने शोभनः / “इडितो." 5 / 2 / 44 इत्यने शोभनशीलः शोभन: / भिदादिनिपातनाद् अङि शोभा / उणादौ "ऋज्यजि० " ( उ० 388 ) इति किति रे शुभ्रः / शुभत् शोभार्थे [ 5 / 73 ] शुम्भति; अत्र " मुचादि० " 4 / 4 / 99 इति नः // 1. मञ्जि' इति मु० // 2. निविदाङ् इति मु० / नैनं धातुं पठति क्षीरस्वामी (क्षी. त. पृ. 101 // )