________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९३८निपातनाद् रुक्मम् हिरण्यम् , रुक्मो वर्णः, सोऽस्या अस्ति इति रुक्मिणी / " नाम्युपान्त्यः" ( उ० 609) इति किः, रुचिः / मत्वर्थे रे रुचिरम् / "रुच्यचि० " ( उ० 989) इति इसि रोचिः, वसुभिः रोचते वसुरोचिः आदित्यः // अथ टान्तास्त्रयः // * 939 घुटि परिवर्तने' / घोटते, जुघुटे / द्युताधडि अघुटत् , अघोटिष्ट / पके घोटकः / " नाम्युपान्त्य० " 5 / 1 / 54 इति के घुटः / स्वार्थिके के घुटिका गुल्फास्थि // ___ +940 रुटि 941 लुटि 942 लुठि प्रतीपाते' / आयौ दीप्तौ इत्यन्ये / रोटते, रुल्टे / धुताडि अरुटत् , अरोटिष्ट / " नाम्युपान्त्य०" 51154 इति के रुटः / ठान्तोऽयमित्यन्ये // '941 लुटि' / लोटते, लुलुटे / द्युतायडि अलुटत् , अलोटिष्ट / लुट विलोटने [ 11190 ] लोटति / लुटच् विलोटने [ 3 / 34 ] लुट्यति // अथ ठान्तः // 942 लुठि' / लोठते, लुलुठे / द्युतायडि अलुठत् , 'अलोठिष्ट / लुठ उपघाते [ 11220 ] लोठति / लुठत् संश्लेषणे [ 55128 ] लुठति / / अथ तान्तः // - '943 श्चिताङ् वर्णे' / ङिचाद् आत्मनेपदे श्वेतते, शिश्विते / द्युताधङि अश्वितत् , अश्वेतिष्ट / आदित्वात् क्तयोर्नेट, श्वित्तः, वित्तवान् / “नवा भावारम्भे" 4 / 4 / 72 श्वेतितमनेन, वित्तमनेन, अश्वित्तः, प्रश्वेतितः / घनि श्वेतः / उणादौ " ऋज्यजि०" (उ० 388 ) इति किति रे श्वित्रं कुष्ठभेदः // . अथ दान्तास्त्रयः // '944 जिमिदाङ् स्नेहने' / स्नेहनं स्नेहयोगः / मेदते, मिमिदे / द्युताद्यङि अमिदत् , अमेदिष्ट / जीचाद् " ज्ञानेच्छा." 5 / 2 / 92 इति वर्तमाने क्तः, मिन्नः / अत्रादित्वाद् नेट् , मिन्नवान् / “नवा भावारम्भे" 4 / 472 1. “शुषीषि-बन्धि० " ( उ० 416 ) इति किति इरेऽपि रुचिरम् भवति /