________________ आचार्यश्री हेमचन्द्रविरचिते [ धा० 948 - '948 क्षुभि संचलने' / संचलनं रूपान्यथात्वम् / क्षोभते, चुक्षुमे / द्युतायडि अक्षुभत् , अक्षोभिष्ट / “क्षुब्धविरिब्ध०" 4 / 4 / 70 इति निपातनाद् इडभावे क्षुब्धो मन्थः, क्षुभितोऽन्यः / शुभच संचलने [356] क्षुभ्यति / शुभश् संचलने [ 8146 ] क्षुम्नाति, क्षुम्नादित्वाद् णत्वाभावः // 949 णभि 950 तुभि हिंसायाम् ' / " पाठे०" 2 / 3 / 97 इति नत्वे नभते / णोपदेशत्वात् " अदुरुपसर्गा० " 2 / 377 इति णत्वे प्रणभते / नेभे / द्युताद्यङि अनभत् , अनभिष्ट / उणादौ " अस्" ( उ० 952 ) इत्यसि नमः / अणोपदेशोऽयमित्येके // '950 तुभि' / तोभते, तुतुमे / द्युताद्यङि अतुभत् , अतोभिष्ट / नभतुभच् हिंसायाम् [ 3 / 57, 58] नभ्यति, प्रणम्यति, तुभ्यति / णभ-तुभश् हिंसायाम् [8 / 47, 48 ] नम्नाति प्रणम्नाति तुम्नाति // ____ '951 सम्भृङ् विश्वासे' / दन्त्यादिः / सम्भते, सस्रम्भे / द्युताद्यडि अस्रमत् , अस्रम्भिष्ट / ऊदित्वात् क्त्वि वेटू , सब्ध्वा सम्भित्वा / "क्वा" 4 / 3 / 29 इति सेट: कित्त्वाभावात् “नो व्यअनस्या०" 4 / 2 / 45 इति नलोपाभाव: / वेट्त्वात् क्तयोर्नेट् , विस्रब्धः, विस्रब्धवान् / " वेर्विच० " 5 / 2 / 59 इति घिनणि विस्रम्भशीलो विस्रम्मी / घजि विस्रम्भः / हान्तोऽयमिति कौशिकः, संहते // अथ शान्तः // '952 भ्रंशुङ 953 स्रसङ् अवस्रंसने ' / " शिड्हे० " 1 / 3 / 40 इति नस्यानुस्वारे भ्रंशते, बभ्रंशे / द्युताद्यङि अभ्रशत् अभ्रंशिष्ट / ऊदिचात् क्त्वि वेट् , भ्रष्ट्रा, भ्रंशित्वा / वेट्त्वात् क्तयोनेंट् , भ्रष्टः / संज्ञायां "कुत्सिता०" 73333 इति कपि भ्रष्टकः, भ्रष्टवान् / यङि " वञ्चत्रंस०" 4 / 1 / 50 इति पूर्वस्यान्तो नी बनीभ्रश्यते / ते अनिट्त्वात् "क्तेटो" 5 / 3 / 106 इत्यप्रत्ययाभावे स्त्रियां क्तौ भ्रष्टिः / घनि भ्रंशः / भ्रंशूच अधःपतने [ 3 / 62 ] भ्रश्यति // ___ अथ सान्तौ // * 953 संसूङ' / दन्त्यादिः / स्रंसते, सस्रंसे / द्युताद्यङि अस्रसत् असंसिष्ट / सनि सिस्रसिषते / यङि सनीस्रस्यते / यङ्लुपि सनीस्रंसीति / 1. सिस्रषिते इति मु० //