________________ 919 ] धातुपारायणे भ्वादयः (1) 125 इति दे शब्दः / शबल इति तु "शमेव च वा" (उ० 470 ) इत्यले शाम्यतेः। शपींच आक्रोशे [ 3 / 140 ] शप्यते, शप्यति / अथ यान्तौ सेटौ च // 917 चायग पूजानिशामनयोः'। चायते, चायति, चचाये, चचाय / ऋदिचाद् न इस्वः, अचचायत् / चायिता। “चायः, कीः" 431186 यङि चेकीयते / “अपाञ्चायश्चिः क्तौ" 4 / 2 / 66 अपचितिः / “अपचितः" 4 / 477 इति क्ते वा निपातनाद् अपचितः अपचायितः / उणादौ " चायः केक च" ( उ० 366 ) इत्यये केकयो राजा / " चायः के च" (उ० 778) इति तुनि केतुः / “चाये? हस्वश्च वा" (उ० 957) इत्यसि चणश्चाणश्चान्नम् / पाहुलकाण्णत्वम् / णत्वं नेच्छन्त्येके // * 9.18 व्ययी गतौ' / व्ययते, व्ययति, वव्यये, वव्याय / "व्यअनादे०" 4 / 3 / 47 इति वा वृद्धेः “न विजागृ०" 4 / 3 / 49 इति प्रतिषेधाद् अव्ययीत् , व्ययिता / णौ व्याययति / अचि व्ययः / व्ययण वित्तसमुत्सर्गे [9 / 332] अदन्तः, व्यययति // अथ लान्तः सेट् च // * 919 अली भूषणपर्याप्तिवारणेषु' / अलते, अलति, आले, आल / सनि अलिलिषते, अलिलिषति / अचि अलम् , “निषेधेऽलंखल्वो:०" 5444 इति निर्देशान्मान्तत्वं निपात्यतेऽव्ययश्चायम् / “भूषादर० " 33144 इति भूषायाँ गतित्वे अलंकृत्य कन्यामुपयच्छते, अत्र “गतिक्व० " 31142 इति समासे क्त्वो यम् / पर्याप्ती अलं मल्लो मल्लाय, अत्र " शक्तार्थ " 2268 इति चतुर्थी / वारणे अलं कृत्वा, अत्र " निषेधेलं. " 54 / 44 इति क्त्वा / उणादौ “निष्कतुरुष्को" (उ० 26) इति के निपातनाद् अलर्कः उन्मत्तः श्वा / " दृकनृ०" (उ० 27) इत्यके अलकं चूर्णकुन्तलः, अलका पुरी / “क्रीकल्यलि०" (उ० 38) इतीके अलिकं ललाटम् / " स्यमिकषि० " ( उ० 46) इतीके अलीकं मिथ्या, अलीका पण्यस्त्री; व्यलीकमपराधः, व्यलीका लज्जा / " कल्यलि०" (उ० 246) इतीन्दकि अलिन्दो द्वाराग्रस्थूणा / " शल्यलेरुचातः" ( उ० 319 ) इति वे उल्वं कललम् / 1. शमेव इति मु० //