________________ 126 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 919" कृशकुटि० " ( उ० 619 ) इति वा णिदिः, आलिः सखी, अलिभ्रमरः / अलक्त इति तु अरक्तशब्दस्य लत्वे / परस्मैपदिनम् एनम् अन्ये मन्यन्ते / / अथ वान्तौ सेटौ च // ___ . 920 धावग गतिशद्धयोः / / धावते, धावति, दधावे, दधाव, धाविता / ऊदित्वात् क्त्वि वेट् , धौत्वा, अत्र " अनुनासिके च० " 4 / 1 / 108 इति वस्य अटि " ऊटा" 112 / 13 इत्यौत्वम् , पक्षे धावित्वा / वेट्त्वात् क्तयोर्नेट् , धौतः, धौतवान् पादौ / कथं धावितः, धावितवान् ? सत्यपि वेट्त्वे गतौ क्तयोरिट्प्रतिषेधस्यानित्यत्वात् / णके धावकः / मनि " अनुनासिके च० " 4 / 1 / 108 इत्यूटि सुधोमा / वनि " वोः०" 4 / 4 / 121 इति वस्य लुकि सुधावा, विचि सुधाः / क्विप्यूटि सुधौः / क्तौ धौतिः / क्तेऽनिट्त्वात् “क्तेटो०" 5 / 3 / 106 इति अप्रत्ययो नास्ति // __921 चीवृग् झपीवत्' / झषी आदानसंवरणयोर्वक्ष्यते तद्वद् अयमपि आदानसंवरणयोरित्यर्थः / चीवते, चीवति, चिचीवे, चिचीव, चीविता, ऋदिचाद् हे अचिचीवत् / अनृदिदयम् इत्येके, तन्मते डे ह्रस्वे अचीचिवत् / उणादौ "जठर०" ( उ० 403) इति निपातनादरे चीवरं मुनिवासः, चिनोतेर्वा वरटि दीर्घ च // अथ शान्तः सेट् च // '922 दाग दाने' / दाशते, दाशति, ददाशे, ददाश, दाशिता / ऋदिचाद् के अददाशत् / " दाश्वत्-साह्वत्० " 4 / 1 / 15 इति निपातनात् फलवकर्तर्यपि क्वसौ द्वित्वेटोरभावे दाश्वान् / घनि दाशतेऽस्मै दाशः / पुरो दास्यते पुरोडाशः / दुःखेन दाश्यते दूडाशः / पृषोदरादित्वात् साधू // ... अथ षान्ता नव त्विषींवर्जाः सेटश्च // '923 झषी आदानसंवरणयोः' / झपते, झपति, जझषे, जझाष, झपिता। क्ते झषितम् / अचि झषः। झष हिंसायाम् [11510 ] झषति / 1. अलक्तक इति तु अरक्तक० प० प्रतौ // 2. शुद्धौ इति क्षीरस्वामी [क्षी. त. पृ. 87 ] // 3. “नीमिकुतुचेर्दीर्घश्च" (70 443) इति सूत्रेण वरटि // 4. दाय दाने इति कौशिकः (क्षी. त. पृ. 127 ) //