________________ 124 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९१२ज्ञाने [ // 119 ] बुध्यते / अविवक्षितकर्मत्वेन " गत्यर्था०" 5 / 1 / 11 इति कर्तरि क्ते बुद्धः // . अथ नान्तास्त्रयः सेटश्च // 913 खनूग अवदारणे' / खनते, खनति / “गमहन० " 4 / 2 / 44 इत्यल्लुकि चखने, चख्नुः, खनिता / ऊदिचात् क्त्वि वेट , खात्वा, अत्र “आः खनि०" 4 / 2 / 60 इति आत्वम् ; खनित्वा / "ये नवा" 4 2062 इति वाऽऽत्वे खायते, खन्यते / यडि चाखायते चकन्यते / यङ्लुपि चटनीति, चङ्खन्ति / वेटत्वात् क्तयोर्नेट् , खातः, खातवान् / “खेय०" 5 / 1 / 38 इति क्यपि निपातनात् खेयम् / " नृत्खन्" 5 / 1165 इति अकटि खनकः, खनकी / "क्वचित्" 5 / 1 / 171 इति डे खन्यते खम् , परिखाता परिखा / “लूधूसू०" 5 / 287 इती खनन्ति तेन खनित्रम् / “खनो डडरेकेकवकघं च" 5 / 3 / 137 आखः, आखरः, आखनिकः, आखनिकवकः, आखनः, आखानः / उणादौ "समृखन्यू०" ( उ० 449) इति किति त्रटि खात्रं चौरकृतं छिद्रम् / “कृ”कुटि० " (उ० 619) इति वा णिदिः, खानिः खनिश्च आकरः / " पराभ्याम्०" (उ० 742) इति डित्यो आखुः // * 914 दानी अवखण्डने' / आर्जवे " शान्दान्० " 347 इति सनि पूर्वस्येतो दीर्घत्वे च दीदांसते, दीदांसति / अर्थान्तरे तु सनोऽभावे प्रत्ययान्तगण्यपि भवन्ति / ..915 शानी तेजने' / निशाने "शान्दान्०" 3 / 4 / 7 इति सनि पूर्वस्येतो दीर्घत्वे च शीशांसते, शीशांसति शस्त्रम् / अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि // अथ पान्तोऽनिट च // 916 शपी आक्रोशे' / आक्रोशो विरुद्धानुध्यानम् / शपते, शपति / अनेकार्थत्वादुपलम्भनेऽपि, “शप उपलम्भने " 3 / 3 / 35 इत्यात्मनेपदे चैत्राय शपते, अत्र " श्लाघहनुस्था० " 2 / 2 / 60 इति चतुर्थी / शेपे, शशाप रिपुम् / यडि शाशप्यते / यङ्लुपि शासपीति, शासप्ति / अनुस्वारेचानेट, शप्ता, शप्तुम् / " शकितकि०" 5 / 1 / 29 इति ध्यणापवादे ये शप्यः / घनि शापः / उणादौ " भृशीशपि०" ( उ० 232 ) इति अथे शपथः / " शाशपि० " ( उ० 237 )