________________ 912 ] धातुपारायणे भ्वादयः (1) 123 प्रणेदते, प्रणेदति / निद्यते, निनिदे, निनेद, नेदिता, नेदितुम् / ऋदित्वाद् डे अनिनेदत् // ___ '906 णेग' / “पाठे० " 2 / 3 / 97 इति नत्वे नेदते, नेदति, नेद्यते / णोपदेशत्वाद् " अदुरुपसर्गा" 2 / 3 / 77 इति णत्वे प्रणेदते, प्रणेदति, निनेदे, निनेद, नेदिता / क्ते नेदितम् / ऋदित्वाद् डे अनिनेदत् // '907 मिग 908 मेग् मेधासियोः' / मेदते, मेदति, मिद्यते, मिमिदे, मिमेद, मेदिता, क्ते मिदितः / ऋदिवाद् डे अमिमेदत् / / '908 मेग्' / मेदते, मेदति, मेद्यते, मिमिदे, मिमेद, मेदिता, क्ते मेदितः / ऋदित्वाद् डे अमिमेदत् / जिमिदाङ् स्नेहने [12944] मेदते / जिमिदाच स्नेहने [ 3 / 37] मेद्यति / मिदुण् स्नेहने [ 9 / 90 ] मिन्दयति // . अथ धान्ताश्चत्वारः सेटश्च // 909 मेधृग् संगमे च'। चकारान्मेधाहिंसयोः / मेधते, मेधति, मेध्यते, मिमिधे, मिमेध, मेधिता, क्ते मेधितः / ऋदित्वाद् डे अमिमेधत् / “क्तेटो" 5 / 3 / 106 इत्यः, मेधा / घ्यणि मेध्यम् / “कर्मणोऽण् " 5 / 1172 इत्यणि अश्वमेधः / “अजातेः०" 5 / 1 / 154 इति णिनि गृहमेधी। उणादौ "पदिपठि." (उ० 607 ) इति इ., मेधिः // ___"910 शृधूम् 911 मृधूग् उन्दे' / उन्दः क्लेदनम् / शृधू तालव्यादिः, शर्धते, शर्धति, शभृधे, शशर्ध, शर्धिता / ऊदित्वात् क्त्वि वेट , शृद्धवा, शर्धिचा / वेट्त्वात् क्तयोनेंट , शृद्धः, शृद्धवान् / शृधूङ् शब्दकुत्सायाम् [1958 ] शर्धते // ___ +911 मृधूग्' / मर्धते, मर्धति, ममृधे, ममर्ध, मर्धिता / अदित्वात् क्त्वि वेट्, मृद्भवा, मर्धित्वा, वेटत्वात् क्तयोनेंट , मृद्धः, मृद्धवान् / “नाम्युपान्त्य." 5 / 1 / 54 इति के मृधं रणः // . 912 बुधृग् बोधने ' / बोधते, बोधति, बुबुधे, बुबोध, बोधिता / ऋदि चाद् वाऽङि अबुधत् , अबोधीत् / आत्मनेपदे तु अङोऽसत्वे अबोधिष्ट, क्ते बुधितः / नायमृदिदित्येके। बुध अवगमने [11968] ज्वलादिः, बोधति। " वा ज्वलादि०" / / 5 / 162 इति णे बोधः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के बुधः / बुधिंच्