________________ 122 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८९९इति वरटि चत्वरम् / " वाश्यसि० " ( उ० 423) इत्युरे चतुरः / " चतेरुर " (उ० 948) चत्वारः // अथ थान्तास्त्रयः सेटश्च // -- 900 प्रोग् पर्याप्तौ' / पर्याप्तिः पूर्णता / प्रोथते, प्रोथति, पुपोथे, पुप्रोथ. प्रोथिता, प्रोथितुम् / ऋदित्वाद् डे अपुप्रोथत् / अचि प्रोथः अश्वघोणाधः प्रियश्च युवा / 'प्रियं प्रोथमनुव्रजेत् ' // 901 मिथुग मेधाहिंसयोः' / मेथते, मेथति, मिमिथे, मिमेथ, मेथिता, मेथितुम् / क्ते मिथितम् / ऋदित्वाद् डे न हूस्वः, अमिमेथत् / क्ये मिथ्यते / लिहायचि मेथः / गौरादित्वाद् ड्याम् मेथी / ' मेथीबद्धोऽपि हि भ्राम्यन् घासनासं करोति गौः' [ सुभाषितावली, 2958 ] उणादौ "किलिपिलि०" (उ० 608) इति इ., मेथिः खलमध्यस्थूणा // '902 मेग् संगमे च' / चकारान्मेधाहिंसयोः / मेथते, मेथति, मिमेथे, मिमेथ, मेथिता, मेथितुम् / क्ते मेथितम् / ऋदिवाद् डे न ह्रस्वः, अमिमेथत् / क्ये मेथ्यते / अचि मेथः / गौरादित्वाद् याम् मेथी // अथ दान्ताः षट् सेटश्च // . 903 चदेग याचने' / चदते, चदति, चेदे, चचाद, चदिता, चदितुम् / क्ते चदितम् / एदित्वाद् " व्यअनादे०" 4 / 3 / 47 इति वा वृद्धेः “न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अचदीत् // 904 ऊबुन्दग् निशामने ' / निशामनमालोचनम् / बुन्दते, बुन्दति, क्ये बुद्यते, बुबुन्दे, बुबुन्द, बुन्दिता, बुन्दितुम् / ऋदिचाद् वाऽङि अबुदत् , अबुन्दीत् / अदित्वात् क्त्वि वेट् , बुवा, बुन्दित्वा / वेट्वात् क्तयोनेंट, बुन्नः, बुन्नवान् / धान्तोऽयमिति नन्दी, बुन्धते, बुन्धति, बुध्यते, अबुधत् , अबुन्धीत् , बुबुन्धे, बुबुन्ध, बुन्धिता, बुन्धितुम् , बुवा, बुन्धित्वा, बुद्धः, बुद्धवान् / अयम् ऊचेदृग् इत्येके / _ '905 णिग 906 णेग कुत्सासनिकर्षयोः'। "पाठे०" // 397 इति नत्वे नेदते, नेदति / णोपदेशत्वाद् " अदुरुपसर्गा० // 2 // 377 इति णत्वे 1. " प्रथू, पृथ, पृतृ व्याप्तौ " इति काशकृत्स्नः (का० धा० पृ० 111 ) / / 2. घोणा अश्वनासिका //