________________ 121 899 ] धातुपारायणे भ्वादयः (1) आत्मनेपदे च रज्यते वस्त्रं स्वयमेव / संयोगान्तत्वाद् अवित्परोक्षाया अपि " इन्ध्यसंयोगात." 4 // 3 // 21 इति किवाभावे नलोपाभावाद् ररओ, ररख / अनुस्वारेचान्नेट् , रक्ता, रक्तुम् / " णौ मृगरमणे" 4 / 2 / 51 इति नलुकि “कगेवनू०" 4 / 2 / 25 इति ह्रस्वे च रजयति मृगं व्याधः / मृगरमणादन्यत्र नलोपाभावे रञ्जयति नटः / केचित्तु अन्यत्रापि नलुकमिच्छन्ति “राजर्षिकल्पो रजयति मनुष्यान् / " " नृत्खन्०" 5 / 1165 इत्यकटि रजकः शिल्पी / " युजभुज. " 5 / 2 / 50 इति घिनणि रञ्जनशीलो रागी। "पनि भावकरणे " 4 / 2 / 52 इति नलुकि रञ्जनं रागः / " व्यअनाद् घञ्" 5 / 3 / 132 इति करणे पनि रागः / आधारे पनि रङ्गो नृत्तस्थानम् / " ऋवर्ण" 5 / 1 / 17 इति ध्यणि रङग्यः / उणादौ " पृषिरभि० ".(30 208) इति किति अते रजतम् / " तुदादिवृजि०" (उ० 273) इति किति अने रजनम् हरिद्रा, महारजनं कुसुम्भम् / गौरादित्वाद् याम् रजनी / “रजेः कित्" (उ० 681) इत्यनौ रजनिः रात्रिः / "मिथिरज्युषि" ( उ० 971 ) इति कित्यसि रजः / रजींच रागे [ 3 / 139] रज्यते, रज्यति // ___ अथ टान्तः सेट् च // ... '897 रेदृग् परिभाषणयाचनयोः' / रेटते, रेटति, रिरेटे, रिरेट, रेटिता, रेटितुम् / ते रेटितम् / ऋदित्वाद् डे न इस्वः, अरिरेटत् // ___ अथ णान्तः सेट् // ___'898 वेग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु' / वादित्रस्य वाद्यभाण्डस्य वादनाय ग्रहणं वादित्रग्रहणम् / वेणते, वेणति, विवेणे, विवेण, वेणिता, वेणितुम् / ऋदिचाद् ङ न हूस्वः, अविवेणत् / अचि वेणः, णके स्त्रियाम् वेणिका / उणादो " इणुर्विशा० " ( उ० 182 ) इति णे वेण्णा नाम नदी। वीणेति तु " ध्वीह्वा०" ( उ० 183 ) इति किति णे वेतेः / वेणिरित्यपि " कावावी." ( उ० 634) इति णावस्यैव // अथ तान्तः सेट् // . 899 चतेग याचने' / चतते, चतति, चेते, चचात, चतिता, चतितुम् / एदित्वाद् " व्यञ्जनादे० " 4 / 3 / 47 इति वा वृद्धः " न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अचतीत् / क्ते चतितम् / उणादौ " कृ-ग-शू" ( उ० 441) 66