________________ आचार्यश्रीहेमचन्द्रविरषिते [ धा० ८९३अथ जान्ताश्चत्वारः तत्र आद्यौ सेटौ अन्त्यौ त्वनिटौ // 893 राजृग् 894 दुभ्राजि दीप्तौ' / राजते, राजति / " भ्रम० " 4 / 1 / 26 इति वा स्वरस्य एत्वे द्वित्वाभावे च रेजे, राजे, रेजुः, राजुः / राजिता / ऋदिचाद् डे अरराजत् / विपि सम्राट् , विराट् / उणादौ "शीभी." ( उ० 71) इत्यानके राजानकः / " धाग्राजि०" (उ० 379) इत्यन्ये राजन्यः। त्रटि राष्ट्रम् / " उक्षितक्ष्य०" ( उ० 900) इत्यनि राजा / ' 894 दुभ्राजि ' इदिचाद् आत्मनेपदे भ्राजते / “जुभ्रम०" 4 / 1 / 26 इति वा स्वरस्य एत्वे द्वित्वाभावे च भेजे, बभ्राजे, भ्राजिता / गौ डे " भ्राजभास" 4 / 2 / 36 इति वा ह्रस्वे अविभ्रजत् , अबभ्राजत् / विचादथुः, भ्राजथुः / टूविचमेके नेच्छन्ति / भ्राजेः आत्मनेपदिनोऽपि पुनरिह पाठः राजसाहचर्यप्रदर्शनार्थः, “तेन " यजसृज० " 221187 इति अवास्यैव ग्रहणात् षत्वे यङ्लुपि बाभ्राष्टि, पूर्वस्य तु धातोगत्वे बाधाक्ति, विच्चायं तेनास्य भ्राजथुः, पूर्वस्य तु भ्राज इति रूपम् / यद्येवं षत्वमेव विकल्प्यतां किं पुनः पाठेन ? सत्यम् , अस्यात्मनेपदाव्यमिचारोपदशेनद्वारा अन्येषां यथा दर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः, तेन लभते, लभति, सेवते, सेवति, 'श्रोतारमुपलभति न प्रशंसितारम्', 'स्वाधीने विभवेऽप्यहो ! नरपति सेवन्ति किं मानिनः ?' इत्यादयः प्रयोगाः साधव इति // . 895 भजी सेवायाम् ' / भजते; भजति / "तृत्रप० " 4 / 1 / 25 इत्येत्वे द्वित्वा भावे च भेजे, मेजुः / यङि बामज्यते, बाभजीति, बाभक्ति / अनुस्वारेत्त्वान्नेट, भक्ता. भक्तुम् / " श्लिष" 5 / 1 / 9 इति वा कर्तरि क्ते विभक्ता भ्रातगे रिक्थम् , पक्षे कर्मणि क्ते विभक्तं धनं तैः / भावे विभक्तं तैः / "शकितकि०" 51 / 29 इति ये भज्यम् / “बहुलम्" 5 / 1 / 2 इति ध्यणि भाग्यम् / “भजोविण" 5 / 1 / 146 अर्धभाक् / “युजभुज" 5 / 2 / 50 इति धिनणि भजनशीलो भागी, पनि भागः / “गोचर" 5 / 3 / 131 इति निपातनात् करणाधारयोघजपवादे घे भगः, क्तो भक्तिः // ... ... ' 896 रखी रागें / " अकटूधिनोश्च० " 4 / 2 / 50 इति नस्य लुकि रजते, रजति / “कुषिरञ्जे".३।४७४ इति कर्मकर्तरि वा श्ये परस्मैपदे च रजति वस्त्रं रजक, रज्यति वस्त्रं स्वयमेव * पक्षे " एक धातौ० 3 / 4 / 86 इति क्ये 1. विशेषार्थिना द्र.'आत्मनेपदमनित्यम्'-न्या० 37 / / 2. पाठः पुन: इति मु०॥