________________ 892 ] धातुपारायणे भ्वादयः (1) अथ चान्तास्त्रयः तत्र आद्यौ सेटौ अन्त्यः अनिट् // '890 अञ्चूगू गतौ च' / चकारादव्यक्ते शब्दे / गतिपूजयोरयं परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्तर्यपि परस्मैपदार्थः, अञ्चते, अञ्चति / " अञ्चोनायाम् " 4 / 2 / 46 इति नस्य लुकि अच्यते / “अनातो." 4 / 1 / 69 इति पूर्वस्यात्वे ने च आनञ्चे, आनञ्च, अञ्चिता, अञ्चितुम् / ऊदित्वात् क्त्वि वेट् , अक्त्वा, अश्चित्वा / अत्र " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावान्नस्य लुग् नास्ति / वेटत्वात् क्तयो नेट् , अक्तः, अक्तवान् / अयमचूग् गतावित्येके; तन्मते अचते, अचति, आचे, आच, अचिता, अचितुम् / ऊदित्वात् क्त्वि वेट् , अक्त्वा, अचित्वा / अचुग् गतावित्यन्ये, उदित्वान्ने अञ्चते, अञ्चति, क्ये अञ्च्यते, क्ते अश्चितः / अञ्चू गतौ च [ 11105 ] अश्चति / अनर्चायां नस्य लुकि अच्यते / अर्चायां नलोपाभावे अञ्च्यते // __891 डुयाग याश्चायाम् ' / याचते, याचति, ययाचे, ययाच / क्ते याचितः / ऋिदत्वाद् डे न हूस्वः, अययावत् / विचात् त्रिम याचित्रिमम् / विदयमित्येके, तन्मतेऽथौ याचथुः / क्ते सेट्त्वात् ध्यणि कत्वाभावे याच्यम् / “मृगयेच्छा०" 5 / 3 / 101 इति निपातनान्ने याश्चा // _ '892 डुपची पाके' / पचते, पचति, पेचे, पपाच, यङि पापच्यते / यङ्लुपि पापचीति, पापक्ति / अनुस्वारेचान्नेट , पक्ता, पक्तुम् / “वैशुषि०" 4 / 2 / 78 इति क्तयोस्तस्य वत्वे पक्वः, पक्ववान् / "क्तेनिट०" 4 / 1 / 111 इति चस्य कत्वे ध्यणि पाक्यः / " व्याप्ये घुरकेलिमकृष्टपच्यम् " 5 / 1 / 4 कृष्टे स्वयमेव पच्यन्ते कृष्टपच्या व्रीहयः / उणादौ " विहाविशा०" ( उ० 354 ) इति केलिमे पचेलिमा माषाः / लिहादित्वादणोपवादे अचि श्वपचः / न्यङ्क्वादिनिपातनादणि कत्वे च श्वपाकः, मांसपाकः / न्यादित्वादेव कर्मकर्तर्यचि वृद्धावुदन्तत्वे च दूरेपाकुः, फलेपाकुः / " मांसस्यानड्" 3 / 2 / 141 इत्यल्लुकि मांस्पचनम् , मांसपचनम् , मांस्पाकः, मांसपाकः / “परिमाणार्थ०" 5 / 1 / 109 इति खे प्रस्थंपचः, मितंपचः, नखंपचा यवागूः / " उदः पचि० " 5 / 2 / 29 इतीष्णौ उत्पचनशील: उत्पचिष्णुः / वित्त्वात् त्रिमकि पाकेन निवृत्तं पत्रिमम् / “षितोङ" 5 / 3 / 107 पच्यतेऽसाविति पचा / स्त्रियां भावे तु "गापा." 5 / 3 / 95 इति क्तिरेव, पक्तिः / उणादौ " स्थविर० " ( उ० 417) इति निपातनात् कितीरे पिठिरम् // 1 तन्मते मु० नास्ति // HHTHHTHA