________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८८७पूर्वस्य तो लुकि पटपटा करोति / उणादौ " कशापाजि० " ( उ० 1) इत्युणि कारुः शिल्पी / “कृगो वा" ( उ० 23) इति वा किति के कृकः शिरोग्रीवम् , कर्क: श्वेताश्वः / करकः, करका इति तु " दकन० " ( उ० 27 ) इत्यके रूपम् / "कृगो द्वे च " (उ० 7) इति किद् अः, चक्रम् / " कुकडि०" (उ० 321) इत्यम्बे करम्बो दध्योदनो दधिसक्तवश्च / “ककले रम्भः" ( उ० 336 ) करम्भो दघिसक्तवः / करीर इति तु किरते: “कश्रप० " ( उ० 418) इतीरे / " ऋकृमृ०" ( उ० 475) इत्याले करालम् उच्चम् / " पतिकलूभ्यो णित् " ( उ० 479) कारालं लेपद्रव्यम् / “कधूतन्यू० " ( उ० 440) इति किति सरे कृसरः तिलौर्दनः / “कृकुरिभ्यां पासः " ( उ० 583) कर्षासः / “कृशकुटि० " ( उ० 619) इति वा गिद् इ., कारिः शिल्पी, करिहस्ती, विष्णुश्च / "ऋहसू०" (उ० 638) इत्यणौ करणिः सादृश्यम् / “आङः कृढ०" (उ० 643) इति सनः अणौ आचिकीर्षणिः व्यवसायः / “कृभूम्यां किन " (उ० 690) इति मौ कृमिः / क्रिमिरिति तु क्रमेः “क्रमितमि० " (उ० 613) इति इप्रत्यये उपान्त्येत्वे च / “जशस्त." ( उ० 705) इति डिति वौ कृविः रुद्रो राजा च / “कृढ० " ( उ० 772 ) इत्येणौ करेणुहम्ती / “कृलाभ्यां कि " ( उ० 780 ) इत्यतौ क्रतुः / मनि [ मन् ( उ० 911) ] कर्म / करण्ड इति तु "जकत० " ( उ० 171 ) इत्यण्डे किरतेः / एवं “किरोङ्को रो लश्च वा" ( उ० 62 ) करकः, कलङ्कः / " का ऋत उर च" (उ० 734) इन्युः, कुरुः / कुरोरपत्यमिति' " दुनादि० " 6 / 1 / 118 इति ज्यः - [ कौरव्यः] / " कुरोर्वा " 61 / 122 इति स्त्रियां तल्लुपि " उतोऽप्राणिनश्चा०" 2473 इत्यूङि कुरूः / कुंग्टु हिंसायाम् , [ 4 / 8] कृणुते, कृणोति / ___ अथ कान्तः // '889 हिकी अध्यक्ते शब्दे' / ईदिच्चात् फलवत्कर्तरि " ईगितः" 3 / 3 / 95 इत्यात्मनेपदम् / अफलवति तु " शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदम् / हिकते, हिकति, जिहिक्के, जिहिक, हिकिता, क्ते हिकितम् / “क्तेटो. " 53 / 106 इत्यः, हिक्का // 1 करीरः वंशाधङकुरः, वृक्षविशेषः [लोके कहर इति ] घटश्च, (लि. टी. पृ. 133) /