________________ 887.] धातुपारायणे भ्वादयः (1) कर्मत्वे करोति कटं चैत्रः, कारयति कटं चैत्रं चैत्रेण वा मैत्रः / " कृगो नवा " 3 / 1 / 10 इति वा गति संज्ञायां " तिरसो वा" 2 / 3 / 2 इति वा रस्य सत्वे तिरस्कृत्य, तिरःकृत्य / पक्षे गतित्वाभावे " गतिक्व०" 31142 इति समासाभावाद् यवभावे तिरः कृत्वा / "कर्मणोऽण" 5 / 1172 इत्यणि पयस्कारः, अत्र " अतः ककमि०" 2 / 3 / 5 इति रस्य सत्वम् / “सत्यागदा०" 312 / 112 इति मे सत्यङ्कारः / “कृवृषि० " 5 / 1 / 42 इति वा क्यपि कृत्यम् / पक्षे ध्यणि कार्यम् / "शकवस्तम्बाद्" 5 / 1 / 100 इति इ., शकृतकरिवत्सः, स्तम्बकरिव्रीहिः / “किंयत्तबहोरः" 5 / 1 / 101 किंकरः, किंकरा, जातिरिदानीम् / किंकरीति तु " हेतुतच्छीला." 5 / 1 / 103 इति टे रूपम् , यथा विद्या यशस्करी। "संख्याहर्दिवा०", 5 / 1 / 102 इति टे संख्याकरः, एककरः इत्यादि / "भृतौ कर्मणः" 5 / 1 / 104 कर्मकरः, कर्मकरी / “क्षेम-प्रिय-मद्र-भद्रात् खाऽण् " 5 / 1 / 105 क्षेमङ्करः, क्षेमकारः / "मेघर्ति-भयाभयात् खः" 5 / 1 / 106 मेघङ्करः / “कृगः खनट् करणे" 5 / 1 / 129 ननङ्करण द्यतम् / “कृगः सुपुण्यपाप०" 5 / 1 / 162 इति भूते विवपि सुकृत् / "सहराज०" 5 / 1 / 167 इति भूते क्वनिपि सहकृत्वा, राजकृत्वा / “भ्राज्यलम्" 5 / 2 / 28 इतीष्णौ अलंकरणशीलः अलंकरिष्णुः, निराकरिष्णुः / "कृगः श च वा", 5 / 3 / 100 क्रिया, क्यपि कृत्या / पक्षे तो कृतिः / भिदादिनिपातनाद् अङि कारा गुप्तिः / “कारणम् " 5 / 3 / 127 इत्यनटि निपातनात् करोतीति कारणम् / "व्यर्थे कळप्या०" 5 / 3 / 140 इति खलि सुकटंकगणि वीरणानि / " अन्यथैवं० " 5 / 4 / 50 इति ख्णमि अन्यथाकारं भुङ्कते / “यथातथादीर्योत्तरे" 5 / 4 / 51 यथाकारमस्तु किं तवानेन ? / " शापे व्याप्यात् " 5 / 4 / 52 चौरंकारमाक्रोशति / " स्वाद्वर्थाददीर्घात्" 5 / 4 / 53 स्वादुङ्कारं भुङ्कते। "कगोऽव्ययेनानिष्टोक्ती क्वाणमौ" 5 / 4 / 84 उच्चैःकृत्य, उच्चैः कृत्वा, उनकारं कथयति ब्राह्मण ! कन्या तेगर्भिणी / “तिर्यचापवर्ग" 5 / 4 / 85 तिर्यक्कृत्य, तिर्यक् कृत्वा, तिर्यकारं गतः, समाष्य इत्यर्थः / " स्वागतच्व्यर्थे नानाविनाधार्थेन भुवश्च" 5 / 4 / 86 मुखतःकृत्य, मुखतः कृत्वा मुखतःकारं गतः, एषु "तृतीयोक्तं वा" 3 1150 इति वा समासः / सनि क्ते चिकीर्षितम् / “प्रज्ञादि०" 7 / 2 / 165 अणि चैकीर्षितम् / "कृम्वस्तिभ्यां०” 7 / 2 / 126 इति च्वौ घटीकरोति मृदम् / " अरुमन० " 7 / 2 / 127 इति सो लुकि अरूकरोति / “तीयशम्ब०" 7 / 2 / 1356 इति डाचि द्वितीयाकरोति क्षेत्रम् / " संख्यादेर्गुणात्" 7 / 2 / 136 द्विगुणा करोति क्षेत्रम् / " अव्यक्तानुकरणा० " 7 / 2 / 145 इति डाचि, “डाच्यादौ " // 2 // 149 इति