________________ आचार्यश्रीहेमचन्द्रविरचिते [धा० 887___ '887 धुंग धारणे' / धरते धरति। अनुस्वारेवान्नेट् , धर्ता, धतुम् / " आयुधादिभ्यो०" 5 / 1 / 94 इत्यचि वज्रधरः, चक्रधरः / दण्डादेस्तु “कर्मणोऽण" 5 / 1 / 72 इत्यणि दण्डधारः, सूत्रधारः / धृङ् अविधंसने (11602 ) धरते / " ,त् स्थाने" (5 / 153) ध्रियते / चुरादेराकृतिगणत्वात् धारयति // 888 डुकंग करणे' / " कृगतनादेरुः" 3 / 4 / 83 कुरुते, करोति / फलवत्कर्तयपि "परानो: कृगः" 33 / 101 इति परस्मैपदे पराकरोति, अनुकरोति / तनादिषु पाठम् अकृत्वा अस्य पाठः " तन्भ्यो वा०" 4 / 3 / 68 इति सिचो लुग्विकल्पाभावार्थः, तेन अकृत, अकृथाः इत्यत्र “धुहस्वात्०" 4 / 3 / 70 इति नित्यमेव सिजलुक् भवति, शवर्थश्च; तेन करते, करति इत्यत्र “कतैयनद्यः०" 3471 इति शवपि भवति / चक्रे, चकार / अनुस्वारेन्वान्नेट् , कर्ता, कर्तुम् / ड्विचात् त्रिम, कृत्रिमम् / “गन्धना०" 3 / 3 / 76 इत्यात्मनेपदे उत्कुरुते / " अधेः प्रसहने" 3377 अधिकुरुते / “वेः कृगः०" 3 / 3 / 85 इत्यात्मनेपदे कोष्टा विकुरुते स्वरान् , विकृर्वते सैन्धवाः / णौ "मिथ्याकगो०" 3393 इत्यात्मनेपदे पदं मिथ्या कारयते, स्वरादिदोषदुष्टमसकृत् उच्चारयति इत्यर्थः / " कृगो यि च" 4 / 2 / 88 इत्युलोपे कुर्यात् , कुर्वः, कुर्मः / एषु " कुरुच्छरः" 2 / 1 / 66 इति प्रतिषेधात् " वादे०". 2 / 1 / 63 इति दीर्घा न भवति / " हनृतः०" 4 / 4 / 49 इतीटि करिष्यते, करिष्यति / " स्क्रसृवृ०" 4481 इतीटि संचस्करिव, संचस्करिम / अत्र “संपरे:०" 4 / 4 / 91 इति स्सट् , " स्कच्छृतो० " 4 / 3 / 8 इति गुणश्च / " उपाद् भूषा० " 4 / 4 / 92 इति स्सटि एधोदकस्योपस्कुरुते, अत्र " कृगः प्रतियत्ने” 2 / 2 / 12 इति कर्मणो वा कर्मत्वे " शेषे " 2 / 281 इति षष्ठी / “हुक्रोर्नवा" 2 / 2 / 8 इति अणिकर्तुः गो वा 2. अत्रेदमवधेयम्-प्रायेण सर्व एष प्राचीना देव-पाल्य कीर्ति-हेमचन्द्र-दशपाधुणादिवृत्तिकारादयः कृशं भ्वादौ पठन्ति / अस्य भ्वादिस्थस्यैव प्रयोगा: पालि-प्राकृतभाषयो रुपलभ्यन्ते / हिन्दी भाषायामपि करता है' इति अस्यैवाऽपभ्रंश न तु करोते:। एतेन कृतो भ्वादिष्वविगीत एव पाठः / सायणेन उपो षु शणुहि' (ऋ० 1811) मन्त्रव्याख्याने धातुवृत्तौ (पृष्ठ 163) चास्य महता प्रपञ्चेन भ्वादित्वं निराकृतम् / ये च तत्र हेतवो निर्दिष्टास्ते सर्वे हेत्वाभासा एव / भट्टोजिदीक्षितादयः सायणमेवानुययुः / वस्तुतः कृतो भ्वादावेव पाठः, न तु तनादौ / अत एव पाणिनिना 'तनादिकृभ्यः उः' ( 79) सत्रे तनादिभ्यः पृथक कूत्रः पाठः कृतः / सति तनादौ, कृञः पृथक पाठोडनुचित एव / कदाचिदुत्तरकालीनैरयं तनादिषु प्रक्षिप्तः स्यात् / तनादिकृभ्यः उः। इति सूत्रस्थमहाभाष्याच्चैतत्प्रतीयते यत्पतञ्जलेः प्रागेवास्य धातोः तनादिषु प्रक्षेपो बभूव / (क्षी. त. टि. पृ. 130) /