________________ 115 886 ] धातुपारायणे भ्वादयः (1) इत्यचि पुष्पाहरो विद्याधरः / “दृति-नाथात् पशाविः" 5 / 1197 दृतिहरिः नाथहरिः पशुः / " न्यायाऽवाया०" 5 / 3 / 134 इति घापवादे घजि संहारः, अवहारः / उणादौ " कुशिक-हृदिक०" (उ० 45) इति इके निपातनाद् हृदिको यादवः / “द्रुहृवृहि०" (उ०१९४) इतीणे हरिणः / “दृश्या०" (उ० 210) इति इते हरितः / “गयहृदया." (उ० 370) इति अये निपातनाद् हृदयम् / " हिरण्य०" ( उ० 380) इति अन्ये निपातनाद् हिरण्यम् / " स्वरेभ्य इ." ( उ० 606) हरिः / " नीवीप्रहृभ्यो डित्" ( उ० 616) प्रहिः कूपः / “कह०" (उ० 772) इति एणौ हरेणुर्गन्धद्रव्यम् / " हुसृरुहि०" ( उ० 887) इति इति हरित दिक् / " हुजनिभ्यामिमन्" (उ० 917) हरिमा मृत्युः / “सहभृ०" ( उ० 918) इति ईमनि हरीमा वायुः // ..' 886 भुंग भरणे' / भरते, भरति / अनुस्वारेचान्नेट् , भर्ता, भर्तुम् / तीर्थस्य भर्ता तीर्थभर्ता, "कर्मजा तृचा च" 31183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः / “हनृतः स्यस्य " 4 / 4 / 49 इतीटि भरिष्यते, भरिष्यति / सनि "इवृध." 4447 इति वेटि बुभूपति, बिभरिषति / भृतः, भृतवान् / घनि भारः / भर इति तु भृमातेरलि / “भृगोऽसंज्ञायाम् " 5 / 1145 इति क्यपि मृत्यः, संज्ञायां तु "ऋवर्ण०" 5 / 1117 इति ध्यणि भार्यों नाम क्षत्रियः / भार्या वधूः / "कुक्ष्यात्मोदराद् भगः खिः" 5 / 1 / 90 कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः / "भृवृजि." 5 / 1 / 112 इति खे विश्वंभरा भूः / विपि विदभृत् / “अजातेः शीले" 5 / 1 / 154 इति णिनि मालभारी, अत्र “मालेपीके० " 2 / 4 / 102 इति पूर्वपदस्य हस्वः / एवम् उत्पलमालभारी / उणादौ " दृप्रभृ०" ( उ० 207) इत्यते भरतः / " अवभृ०" (उ० 229) इति किति थे अवभृथो यज्ञान्तः / " कृवभृ० " (उ० 528) किति शे भृशम् / “भृमृत्०" (उ० 716) इत्युः, भरुः देशः, समुद्रश्च / “ऋतृशमृना. दिभ्यो गे लश्च" (उ० 727) इति णिदुः, भालुः इन्द्रः / " हनिया०" (उ० 733) इति कित्यौ द्वित्दे च बभ्रुनकुलः / भृगुः इति तु भ्रस्जेः " पशिभ्रस्जेः स्लुक च" (उ० 731) इति कित्यौ / “भृाणिभ्यामिज् मुरवणौ च" (उ० 875) भुरिक भुरिजी बाहुः / " दिव्यवि" ( उ० 142 ) इत्यटे भरटः उडुपः / “शाशि-शंसिक" ( उ० 857) इति तः, भर्ता पतिः / टुडुभंगक पोषणे च (2682) विति // 1 सोमयज्ञानां समाप्तौ क्रियमाणं स्नानं अवभृथशब्देन उच्यते, . (क्षी. त. पृ. 129, टि०)॥