________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 8842 / 371 इति णत्वे क्विपि ग्रामणीः, अग्रणीः / “असरूपोपवादे०" 5 / 1 / 16 इत्यणि ग्रामनाय इत्यपि / “नीदाव०" 5 / 2 / 88 इति करणे त्रटि नेत्रम् / "नियश्चानुपसर्गा०" 53160 इति वा घनि नायः, पक्षेऽलि नयः / “वोदः" 5 / 3 / 61 उन्नायः, उन्नयः / " अवात् " 5 / 3 / 62 अवनायः / “परे ते " 5 / 3 / 63 परिणायेन शारीन् हन्ति / " पुन्नाम्नि घः" 5 / 3 / 130 नीयतेऽनेनेति नयः / " आनायो जालम्" 5 / 3 / 136 इति पनि आनायो मृगाणाम् / उणादौ " नीनूरमि०" ( उ० 227 ) इति किति थे नीथं जलम् , सुनीथो नाम राजा / " नियो वा" (उ० 302) इति वा किति पे नीपः कदम्बः / कित्त्वाभावे नेपः पुरोधाः, नेपं जलं यानं च / " ऋज्यजि०" (उ० 388) इति किति रे नीरम् / “नीसा०" (उ० 687) इति मौ नेमिः चक्रधारा / “नियो डित् " (उ० 854) इति ऋः, ना, नरौ / "हुपद्गोत्री०" (उ० 863) इति तः उन्नेता ऋत्विक् / “नियः पादिः" (उ० 864) नेष्टा ऋत्विक // अथ ऋदन्ताश्चत्वारोऽनिटश्च // '885 हुंग हरणे' / हरते, हरति, जहे , जहार / " विनिमेय० " 2 / 2 / 16 इति कर्मणो वा कर्मत्वे "शेषे " 2 / 281 इति षष्ठ्यां शतस्य व्यवहरति, शतं व्यवहरति / अनुस्वारेवान्नेट, हर्ता, हर्तुम् / " हनृतः स्यस्य" 4 / 4 / 49 इतीटि हरिध्यति / "हगो गतताच्छील्ये" 3 / 3 / 38 इत्यात्मनेपदे पैतृकमश्वा अनुहरन्ते / हरतिः अयं सकर्मकश्च अकर्मकश्च तथा अभ्यवहारार्थश्च इतरार्थश्च दृश्यते, यदा अकर्मकश्च अभ्यवहारार्थश्च भवति तदा णौ " गतिबोधा०" 2 / 2 / 5 इत्यणिकर्तुनित्यं प्राप्त कर्मत्वं " हक्रोनवा" 2 / 2 / 8 इति विकल्प्यते, हरति मैत्रः, हारयति मैत्रं मेत्रेण वा चैत्रः, अभ्यवहरति मैत्रः, अभ्यवहारयति मैत्रं मैत्रेण वा चैत्रः / यदा सकर्मको भवति तदा चौर्यार्थत्वाद् अनभ्यवहारार्थश्च, तदा कर्मत्वमप्राप्तं " हक्रोर्नवा" 22218 इति विभाष्यते, हरति द्रव्यं चौरः, हास्यति द्रव्यं चौरं चौरेण वा चैत्रः / यदा तु सकर्मकोऽपि देशान्तरप्रापणार्थः तदा गत्यर्थत्वाद् “गतिबोधा०" 2 / 2 / 5. इति नित्यं प्राप्तं कर्मत्वं विभाष्यते, हरति भारं चैत्रः, हारयति भारं चैत्रं चैत्रेण वा मैत्रः, देशान्तरं प्रापयतीत्यर्थः / ग्रहादित्वाणिनि व्याहारी, संव्याहारी / " अवहसासंस्रो" 5 / 1163 इति णे अवहारो ग्राहः / " हृगो वयोऽनुद्यमे " 5 / 1195 इत्यचि अस्थिहरः श्वा, मनोहरः / उद्यमे तु अणेव, मारहारः / “आङः शीले " 5 / 1296 1 'हुपुग्यो' इत्युणादिखत्रे //