________________ भ्वादिगणे . अथोभयपदिनो भ्लक्षीपर्यन्ता वर्णक्रमेण // 883 विग् सेवायाम्'। गित्वात् फलवति कर्तरि " ईगितः" 3 / 3 / 95 इति आत्मनेपदम् , अन्यत्र च “शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदम् / एवं सर्वत्र / श्रयते, श्रयति, शिश्रिये, शिश्राय / “णिभि०" 3 / 4 / 58 इति उ अशिश्रियत् / श्रयिता, श्रयितुम् / “ऋवर्णश्रूयूMगः कितः" 4 / 4 / 57 इतीडभावे श्रित्वा, श्रितः, श्रितवान् / सनि “इवृध०" 4 / 4 / 47 इति वेटि शिश्रीपति, शिश्रयिषति / “जीणदृक्षि०" 5 / 2172 इतीनि विश्रयणशीलो विश्रयी / “दिद्युद्-ददृद्" 5 / 2 / 83 इति विपि निपातनात् श्रीः / "भूश्रयदोल" 53 / 23 इति सोपसर्गादलि प्रश्रयः, अनुपसर्गात्तु पनि श्राया, श्रय इति तु बाहुलकादलि / “उदः श्रेः" 5 / 3153 इति वालि उच्छ्यः, पक्षे घजि उच्छ्रायः / उणादौ "कावावी०" (उ० 634) इति णौ श्रेणिः / अधिः इति तु अश्नोतेः "तङ्कि-वकि०" (उ०६९२) इति रौ / इमश्रुः इत्यपि शेतेः “मनः शीडोडित्" (उ० 810) इति रौ / शिर इति च शणाते: " मिथिरञ्ज्युषि० " (उ० 971) इति किति असि // ... '884 णींग प्रापणे' / अजां नयते, नयति वा ग्रामम् , प्रापयतीत्यर्थः / णोपदेशन्वात् “अदुरुपसर्गान्तरो०" 2 / 377 इति णत्वे प्रणयते, प्रणयति / " पूजाऽऽचार्यक० " 3 3 / 39 इत्यात्मनेपदे नयते विद्वान् स्याद्वादे, बटुमुपनयते / "कर्तृस्था०" 3 / 3 / 40 इत्यात्मनेपदे क्रोधं विनयते / क्ये अजा नीयते ग्रामम् / निन्ये, निनाय / अनुस्वारेच्वान्नेट् , नेता, नेतुम् / णिगि " गतिबोधा०" / / 5 इत्यत्र नीवर्जनादणिकर्तुः कर्मत्वाभावे नाययति भारं ग्रामं चैत्रेण / “प्रणाय्यो निष्कामाऽसम्मते " 5 / 1 / 23 इति यणि निपातनात् प्रणाय्यः / “धाय्यापाय्य०" 5 / 1 / 24 इति निपातनात् सान्नाय्यं हविः / “परिचाय्योपचाय्या०" 5 / 1 / 25 इति निपातनाद् आनाय्यो दक्षिणाग्निः / ये तु अग्नेः अन्यत्राप्यनित्यविशेषे इच्छन्ति तन्मते आनाय्यो गोधुक् / “जिविपून्यो०" 5 / 1 / 43 इति क्यपि विनीयः कल्कः / वा, ज्वलादि०" 5 / 1 / 62 इति णे नायः, पक्षेऽचि नयः / “ग्रामाऽग्रान्नियः " 1. विशेषमि० इति मु० // 2. विशेषार्थिना द्र० काशिका (3 / 1 / 27) //