________________ 110 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिमणे गर्दिः / घनि गर्हः। किपि "रात्सः" 2 / 1 / 10 / इति नियमात् संयोगान्तलोपाभावे सुघर्ट्स / गर्हण् विनिन्दने युजादित्वाद् वा णिचि गर्हयति गर्हति // गल्हि / गल्हते जगल्हे गल्हिता। यङि जागल्ह्यते / मन्नादिषु पूर्ववत् // 862 वर्हि 863 वल्हि प्राधान्ये / वर्हते वर्हे वर्हिता / अचि वर्हः प्रधानभूतः / मुनि5 प्रवर्हः॥ वल्हि / वल्हते ववल्हे वल्हिता / चुरादौ भासार्थो वर्हयति वल्यति // 864 बर्हि 865 बल्हि परिभाषण-हिंसा-ऽऽच्छादनेषु / दानेऽप्यन्ये / ओष्ठ्यादी एतौ, पूर्वी तु दन्तौष्ठ्यादी / बर्हते बबहें बर्हिता / घञि बर्हः / प्रज्ञाद्यणि बार्हः / “फल-बच्चि-"७।२।१३। इति इने बर्हिणः॥ बल्हि। बल्हते बबल्हे बल्हिता। "हाऽन्तस्था-" 2 / 1181 / इत्यद्यतन्या धस्य वा ढत्वे अवल्हिढ्वम् अवल्हिध्वम् / उणादौ "सृणीका-" (उ० 50) इति इके 10 निपातनात् बाल्हीकः / “पदि-पठि-" (उ० 607) इति इ., बल्हिः / बाहुलकाद्दीधै बाल्हयः / खार्थिके के बाल्हिका देशः क्षत्रियाश्च // 866 वेहङ् 867 जेहङ् 868 वाहृङ् प्रयत्ने / वेहते विवेहे वेहिता : ऋदित्त्वाद् डे न हखः, अविवेहत् / वेहदिति तु हैन्तेः, विहन्ति गर्भमिति वेहद् गर्भघ्नी गौः, “संश्च हत्साक्षादादयः" (उ० 882) इति निपातनात् // जेहङ् / जेहते जिजेहे जेहिता / ऋदित्त्वाद् डे अजिजेहत् / / 15 वाहङ् / वाहते ववाहे वाहिता / ऋदित्त्वाद् उ अववाहत् / "क्षुब्ध-विरिब्ध-".४।४।७०। इति क्ते निपातनादिडभावे वाढं भृशम् / वाहितमन्यत् // 869 द्राहङ् निक्षेपे / निद्राक्षेपे इत्येके / द्राहते दद्राहे द्राहिता। ऋदित्त्वाद् डे अदद्राहत् // 870 ऊहि तेर्के / तर्क उत्प्रेक्षा / उहते / “उपसदिस्य-"३।३।२५। इति वाऽऽत्मनेपदे 20 समूहति समूहते / “उपसर्गादूहो-" 4 / 3 / 106 / इति क्ङिति यि ह्रस्वे अभ्युह्यते समुह्यते / “गुरु नाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि उहाञ्चक्रे / सनि "स्वरादे:-" 4 / 1 / 4 / इति हेद्वित्वे ऊजिहिषते / क्ते ऊहितम् / "क्तेटो-" 5 / 3 / 106 / इति अः, उहा। घञि ऊहः / 871 गाहौङ् विलोडने / विलोडनं परिमलनम् / गाहते जगाहे / औदित्त्वाद् वेट्, गाढा गाहिता / वेट्त्वात् क्तयोर्नेट्, गाढः गाढवान् / अचि गाहः। स्त्रियां गौरादित्वाद् ड्याम् गाही। 25 घनि अवगाहः / / 872 ग्लहौङ्ग्रहणे / ग्लहते जग्लहे / औदित्त्वाद् वेट , ग्लाढा, अत्र "ढस्तड्डे" 1 / 3 / 42 / 1 पाणिनीयाः // 2 विपूर्वात् हन्तेर्डित्कत् वेश्च गुणः, वेहत् गर्भनी अप्रजा स्त्री अनड्वांश्च // 3 कियाविशेषणमेवैतत् , यद्ययं क्रियाविशेषणं तत्कथं बाढविक्रमा इत्यत्र विक्रमाभिधायी बाढशब्द इति चेत्, उच्यते। नात्र बाढशब्दो विक्रमाभिधायी किन्तु विस्पष्टपटुवत् बाढशब्देन क्रियाविशेषणेन सह समास इति // 4 पाणिनीयाः॥ 5 वितर्के / / वितर्कः सम्भावनम्, इति पाणिनीयाः। कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इत्यत्र परस्मैपदम् ? अत्राहुः-अनुदात्तत्वलक्षणस्य तङो अनित्यत्वान्न दोष इति तत्वबोधिन्यां सिद्धान्तकौ. पृ०३७१॥