________________ आत्मनेधातवः 862-882] स्वोपझं धातुपारायणम् / इति ढे ढो लुक् पूर्वस्यातो दीर्घश्च / इटि ग्लहिता / वेट्त्वात् क्तयोर्नेट, ग्लाढः ग्लाढवान् / “सु-ग्लहः प्रजनाक्षे" 5 / 3 / 31 / इत्यलि अक्षाणां ग्लहः पणः। अक्षविषयादन्यत्र पनि ग्लाहः। अयं गृहौ इत्येके / गर्हते गर्हिता गर्दा गृढः गृढिः गृहम् गृहाः // 873 बहुङ् 874 महुङ् वृद्धौ / उदित्त्वाद् ने बहते बबहे बंहिता। उणादौ "स्थावकि-बहि-" (उ० 486) इति किति उले नलुकि च बहुलः कृष्णपक्षः / “बंहि व्हेर्नलुक् च" / (उ०९९०) इति इसि बहिः / बहुः बाहुरिति तु "मि-वहि-" (उ० 726) इति वा णिति औ वहेः।। महुङ् / उदित्त्वाद् ने मंहते ममहे मंहिता। महानिति तु महे: “द्रुहि-वृहि-" (उ० 884) इति कतरि / महीत्यप्यस्यैव "पदि-पठि-"(उ० 607) इति इप्रत्यये, अजन्तस्य वा ड्याम् / वहुण् महुण भासार्थों वहयति मंहयति॥ अथ क्षान्ता अष्टौ सेटश्च / एतेषां च षान्तेषु पाठो युक्तः, वैचित्र्यार्थ विह कृतः॥ 10 875 दक्षि शैघ्रये च / शैघ्रयं शीघ्रता चकाराद् वृद्धौ। दक्षते ददक्षे दक्षिता। अचि दक्षः / उणादौ "दु-ह-" (उ० 194) इति इणे दक्षिणः दक्षिणा / “श्रु-दक्षि-" (उ० 373) इति आय्ये दक्षाय्यो गरुडः॥ 876 धुक्षि 877 धिक्षि सन्दीपन-क्लेशन-जीवनेषु / धुक्षते दुधुक्षे धुक्षिता। मनि सुधुक्ष्मा / किब्लुकि “संयोगरयादौ-" 2 / 1 / 88 / इति को लुकि सुधुट् / ते सन्धुक्षितः॥ 15 धिक्षि / धिक्षते दिधिक्षे धिक्षिता / मनि सुधिक्ष्मा / क्विपि सुधिट् // 878 वृक्षि वरणे / वृक्षते ववृक्षे वृक्षिता। यङि “ऋमताम्-" 4 / 1 / 55 / इति री, वरीवृक्ष्यते / अचि घञि वा वृक्षः / मन्नादिपु धुक्षिवत् // ... 879 शिक्षि विद्योपादाने / शिक्षते शिशिक्षे शिक्षिता। क्ते शिक्षितः। "क्तेटो-" 5 / 3 / 106 / इति अः,शिक्षा। णके शिक्षकः / शिक्षतीति तु शकेः सन्नन्तस्याजिज्ञासाय उपम् / जिज्ञा-20 सायां तु शकेरप्यात्मनेपदमेव, विद्यासु शिक्षते // 880 भिक्षि याञायाम्। भिक्षते गां राजानम् / बिभिक्षे भिक्षिता। “सन्-भिक्षा-" 5 / 2 / 33 / इति उः, भिक्षणशीलो भिक्षुः / “वृङ्-भिक्षि-"५।२।७०। इति टाके भिक्षाकः भिक्षाकी। ते भिक्षितः / "क्तटो-"५।३।१०६। इति अः, भिक्षा / घनि भिक्षः / केचिदलाभे लाभे चेत्याहुः // 881 दीक्षि मौण्डयेज्योपनयन-नियम-व्रतादेशेषु / मौण्ड्यं वपनम् , इज्या यजनम् , 25 उपनयनं मौञ्जीबन्धः, नियमः संयमः, व्रतादेशः संस्कारादेशः। दीक्षते दिदीक्षे दीक्षिता। "इडितो-" 5 / 2 / 44 / इत्यनस्य "न णिड्य-"५।२।४५। इति प्रतिषेधात् तृनि दीक्षिता / ते दीक्षितः। "क्तटो-" 5 / 3 / 106 / इत्यः, दीक्षा / केचित्तु दीक्षि मौण्डयेज्योपनयनादौ चेति वृद्धपाठं भिन्दन्ति / ज्यवते जीतः // 882 ईक्षि दर्शने / ईक्षते / “गुरुनाम्यादे:-" 3 / 4 / 48 इति परोक्षाया आमि ईक्षा-30