________________ 109 आत्मनेधातवः 843-861] स्वोपशं धातुपारायणम् / प्रणासते / ननासे नासिता। ऋदित्त्वाद् उ अननासत् / अचि नासा / णके नासिका // 851 णसि कौटिल्ये / “पाठे धात्वादे:-" 2 / 3 / 97 / इति णस्य नत्वे णोपदेशत्वाद् "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणसते / नेसे नसिता। णके नासिका। विचि किपि वा सौ भ्वादित्वाद् "अभ्वादे:-" 1 / 4 / 90 / इति दीर्घाभावे सुनः / कर्मणि घाञ नासो घ्राणम् / उणादौ "नसि-वसि-" (उ० 40) इति णिदिकः, नासिका // 852 भ्यसि भये / भ्यसते बभ्यसे भ्यसिता। “भेष" इति चन्द्रः। मेषते // 853 आङः शसुङ् इच्छायाम् / आङ इति आङः पर एवायं प्रयुज्यते नान्योपसर्गात् नापि केवल इति ज्ञापनार्थम् / उदित्त्वाद् ने आशंसते आशंस्यते आशशंसे। क्ते आशंसितम् / "क्तेटो-"५।३।१०६। इति अः, आशंसा / “सन्-भिक्षा-" 5 / 2 / 33 / इति उः, आशंसुः / प्रशस्यते शस्त्रम् , प्रशंसेति तु शंसू स्तुतावित्यस्य // 10 854 प्रसूङ् 855 ग्लम्सङ् अदने। ग्रसते जनसे ग्रसिता / यङि जाग्रस्यते। यङ्लुपि जाग्रसीति जाग्रस्ति / ऊदित्त्वात् क्त्वि वेट्, ग्रस्त्वा ग्रसित्वा / वेट्त्वात् क्तयोर्नेट्, ग्रस्तः प्रस्तवान् / घञि ग्रासः / उणादौ “प्रसि-हाग्भ्यां ग्रा-जिहौ च" (उ०३३९) इति मे ग्रामः। “रुक्म-ग्रीष्म-" (उ० 346) इति मे निपातनात् ग्रीष्मः // ग्लसूङ् / ग्लसते जग्लसे ग्लसिता। ऊदित्त्वात् क्त्वि वेट, ग्लस्त्वा ग्लसित्वा / वेट्त्वात् क्तयोर्नेट, ग्लस्तः ग्लस्तवान् / घञि ग्लासः // 16 856 घसुङ् करणे / उदित्त्वाद् ने घंसते जघंसे घंसिता। मूर्धन्यान्तोऽयमिति चन्द्रः घंषते // अथ हान्ता अष्टादश सेटश्च.. 857 ईहि चेष्टायाम् / ईहते / “गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ईहाञ्चक्रे / ईहिता। घञि ईहः / स्त्रियां "क्तटो-'" 5 / 3 / 106 / इति अः, ईहा // 20 858 अहुङ् 859 प्लिहि गतौ / उदित्त्वाद् ने अंहते / "अनातो-" 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनंहे / अंहिता। उणादौ "अम्भि-कुण्ठि-" (उ० 614) इति इनलुक् च, अहिः / "तङ्कि-वकि-" (उ० 692) इति रौ अंहिः / “अस्-' (उ० 952) इति असि अंहः पापम् , अमेर्वा "अमेहौ चान्तौ” (उ० 962) इति असि / अहुण भासार्थः अंहयति // प्लिहि / प्लेहते पिप्लेहे प्लेहिता / उणादौ "श्वन्-" (उ० 902) इति अनि निपातनात् प्लीहा // 25 860 गर्हि 861 गल्हि कुत्सने / गर्हते जगहें गर्हिता / यङि जागयते / मनि सुगा / वनि सुगर्दा / स्त्रियां "क्तेटो-" 5 / 3 / 106 / इति अः, गर्दा / "वादिभ्यः" 5 / 3 / 92 / इति तो . 1 अत्र कृग उभयपदित्वेऽपि “आमः कृगः” 3 / 3 / 75 / इत्यात्मनेपदमेव न परस्मै / ईहाम्बभूव, ईहामास, भ्वस्तिभ्यां परस्मैपदमेव एवमन्यत्रापि // 2 अम गतौ इत्यस्माद् अस् भकार-हकारौ चान्तौ भवतः, अंहः पापं अपराधः दीनश्च //