________________ 108 आचार्यश्रीहेमचन्द्रविरचित [भूषादिगणे 843 घुषुङ् कान्तीकरणे। उदित्त्वाद् ने पुंषते जुधुंषे धूषिता // अथ सान्तात्रयोदश सेट 844 स्रसङ् प्रमादे / दन्त्यादिः / प्रमादोऽवलेपः / संसते सस्रंसे सस्यते। ऊदित्त्वात् क्त्वि वेट्, सस्त्वा; इटि "क्त्वा" 4 / 3 / 29 / इति कित्त्वाभावे संसित्वा / वेट्त्वात् क्तयोर्नेट, सस्तः 5 सस्तवान् / “वञ्च-संस-" 4 / 1 / 50 / इत्यत्र ध्वंसिसहचरितस्य धुतादिसंसेर्ग्रहणादस्य यङि न्यभावे सास्रस्यते / “संस्-ध्वंस्-" 2 / 1 / 68 / इत्यत्र साहचर्यानाश्रयणादुभयोरपि ग्रहणे विपि दत्वे उखासत् / भान्तोऽयमित्येके, विस्रम्भते विस्रभ्यते // 845 कासृङ् शब्दकुत्सायाम् / शब्दस्य कुत्सा रोगः / कासते "दयायोस्-" 3 / 4 / 47) इति परोक्षाया आमि कासाश्चक्रे / कासिता। ऋर्दित्त्वाद् डे न इस्वः, अचकासत् / ते कासितम् / 10 "क्तेटो-" 5 / 3 / 106 // इति अः, कासा / घनि कासः / विकास इति तु कसेर्धनि / / 846 भासि 847 दुभ्रासि 848 टुम्लासृङ् दीप्तौ / भासते बभासे भासिता / णौ डे "भ्राज-भास-"४।२।३६। इति वा ह्रस्वे अबीभसत् अबभासत् / ग्रहादित्वाद् णिनि उद्भासी / “भजिभासि-" ५।२।७४।इति घुरे भासनशीलो भासुरः। “स्थेश-भास-" 5 / 2 / 81 / इति वरे भास्वरः / "दिद्युद्दद्-" 5 / 2 / 83 // इति किपि भाः भासौ भासः / मेति तु "मृगयेच्छा-" 5 / 3 / 101 / 15 इति निपातनादङि आपि च भातेः / क्ते भासितः / "क्तेटो-" 5 / 3 / 106 / इत्यः, भासा / घञि उद्भासः / उणादौ "तृ-जि-भू-वदि-" (उ० 221) इति अन्ते भासन्तः णौ "आमन्ता-” / 3 / 85 / इति अयि भासयन्तश्च सूर्यः // दुभ्रासि / “प्रास-भ्लास-" 3 / 4 / 73 / इति वा श्ये प्रास्यते भासते। "ज-अम-वम-" 4 / 1 / 26 / इति वा स्वरस्यैत्वे द्वित्वाभावे च प्रेसे बनासे / प्रासिता। णौ डे "प्राज-भास-" 4 / 2 / 36 / इति बहुवचनाद्वा ह्रस्वे अविनसत् अबभासत् / ट्वित्त्वा20 दथौ प्रासथुः // दुम्लासह / "प्रास-भ्लास-" 3 / 4 / 73 / इति वा श्ये भ्लास्यते म्लासते। "ज-अम-" 4 / 1 / 26 // इति वैत्वे द्वित्वाभावे च भ्लेसे बभ्लासे। भ्लासिता। ऋदित्त्वाद् णौ के न इस्वः, अबभ्लासत् / दिवत्त्वादयौ भ्लासथुः / / 849 रासृङ् 850 णासृङ् शब्दे / रासते ररासे / ऋदित्त्वाद् णौ डे न हस्व., अररासत् / "नाम्नि पुंसि च" 5 / 3 / 121 / इति णके रासकः / उणादौ “कृश-गृ-" (उ०३२९) इति अभे 25 रासभः / रास्ना रस्नेति तु “रसेर्णिद्वा” (“रसेर्वा") (उ० 260) इति ने रसतेः // णासङ् / "पाठे धात्वादेः-" 2 / 3 / 97 / इति नत्वे नासते। णोपेदशत्वाद् “अदुरुपर्गा-"२।३१७७। इति णत्वे 1 अत्र सायणः घुसि कान्तिकरणे / घिषीतीदुपधं पैठतुः चन्द्रकाश्यपौ / स्वामि घसेति दन्त्यान्तमदुपपधं पपाठ। यथा वयं तथा देव-मैत्रेय-दुर्गाः / षकारान्तोऽप्ययमिति मा.धा.पृ. 119 धा०६४२ / धातुकाव्ये तु घसीत्येके / घषेत्यन्ये / सर्ग, श्लो. 84 टीकायाम् // 2 रोगजे कुत्सितशब्देऽयं प्रसिद्धः। शब्दमात्रे शोभार्थेऽप्याह भट्टिः इति धातुका पृ. 153 स१-७९ श्लोकटीकायाम् // 3 दयायाकार प्र.॥४°वान है सं। सं२ तपा•॥ 5 टुभ्राश टुम्लाश इति पाणिनीयाः //