________________ आत्मनेधातवः 828-842] स्वोपझं धातुपारायणम् / 107 - 833 ईषि गति-हिंसा-दर्शनेषु / ईषते / “गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ईपाश्चक्रे / ईषिता / क्ते ईषितः / "क्तेटो-" 5 / 3 / 106 / इति अः, ईपा, "नाम्युपान्त्य-" 5 / 1 / 54 / इति के वा रूपम् / उणादौ ऋच्युजि-" (उ० 48) इति ईके ईषीका काशः / इषीकेति तु इपत् इच्छायामित्यस्य / इषुरित्यपीच्छतेः "पृ-का-हृषि-" (उ० 729) इति किति औ रूपम् / ईष उञ्छे ईषति // 834 गेष्टङ् अन्विच्छायाम् / अन्विच्छाऽन्वेषणम् / गेषति जिगेषे गेषिता / ऋदित्त्वाद् डे ह्रस्वाभावे अजिगेषत् / / 835 येपृङ् प्रयत्ने / येषते यियेथे येषिता। ऋदित्त्वाद् डे ह्रस्वाभावे अयियेषत् // 836 जेष्ङ् 837 णेङ् 838 एपृङ् 839 ड्रेपृङ् गतौ / जेषते जिजेषे जेषिता / ऋदित्त्वाद् उ अजिजेषत् // पृङ् / “पाठे धात्वादेः-" 2 / 3 / 97 / इति नत्वे नेषते / 10 णोपदेशत्वात् “अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणेषते / निनेषे नेषिता / ऋदित्त्वाद डे अनिनेषत् / नेष्टेति तु नयतेः “नियः षादिः” (उ० 864) इति तृप्रत्यये रूपम् // एतृङ् / एषते अब्वेषते / “गुरुनाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि एषाञ्चक्रे / "स्व देर्द्वितीयः" 4 / 1 / 4 / इति द्वित्वे अन्वेषिषते / ऋदित्त्वाद् डे न ह्रस्वः, मा भवानेषिषत् / अत्राप्योणेरिव ऋदित्करणेन नित्यस्यापि द्वित्वस्य हूस्वेन बाधाज्ञापनाद् हस्वस्य प्राप्तिः / क्ते अन्वेषितः / अन्विष्ट 16 इति त्विच्छतेः // इष्टङ् / हेषते जिरुषे हेषिता / ऋदित्त्वाद् डे अजिरुषत् / के हेषितः / "क्तेटो-" 5 / 3 / 106 / इत्यः, द्वेषा // 840 रेपृङ् 841 हेतृङ् अव्यक्ते शब्दे / रेषते रिरेषे रेषिता / ऋदित्स्वाद के अरिरेसत् / "क्तेटो-" 5 / 3 / 106 / इत्यः, रेषा // हेतृङ् / हेषते जिहेषे हेषिता / ते हेषितम् / ऋदित्त्वाद् डे अजिहेषद् / “केटो-" 5 / 3 / 106 / इत्यः हेषा // 20 842 पर्षि स्नेहने / पर्षते पपर्षे पर्षिता। विपि तलुकि "रात्सः"२।१।९०। इति नियमात "पदस्य" 2 / 1 / 89 / इति लोपाभावे सुप / पाणिरिति तु पृषेः "पृषि-हृषिभ्यां वृद्धिश्च" (उ० 636) इति णौ / पर्षदित्यपि पृणातेः “प्रः सद्" (उ० 897) इति सदि / परिषदिति तु परिपूर्वात् सीदतेः किर्पि // 1 ह्रस्वस्याप्राप्तिः इति मुद्रिते // 2 अस्य स्थाने माधवदीक्षितधातुकाव्यकारादयः पेमिति रेषहेण द्वेष अव्यक्ते शब्दे इति चाहुः, तथा च “सुप्रेषितान् पथि सरेषवृके सहेषं, हेपास्तकासरमदानतिभासुराङ्गान् ! मालोत्थरासलसितान्नसितेन दाम्ना, सूतो ययाम समराभ्यसियास्तुरङ्गान्" // इति धातुकाव्यसर्ग, श्लो०७९ / एवं केशवोऽपि 'कौक्षे कर्दति पर्दते गुदरवे रेषेति वार्के हसे बुकति श्वरवे भषेति हयजे हषेति हेषेति च' इति / रेषधातुः स्वभावाद् वृकशब्दे, हे लेषु च धातू अश्वशब्दे इति // 3 पृष् सेचने इत्यस्मात् धातोः / / 4 पशु पालन-पूरणयोः इत्यस्मात् // 5. षद्ल विशरणगत्यवसादनेषु // 6 क्विय् 1-2 तपा०॥