________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे सनि परिषिषेविषते, अत्र "णि-स्तोरेवा-" 2 / 3 / 37 / इति नियमेन बाधितस्य षत्वस्य प्रतिप्रसवः / अनटि सेवनम् / भीरुष्ठानादित्वात् पत्वे दुन्दुभेः सेवनं दुन्दुभिषेवणम् // सेवृङ् / सेवते / अषोपदेशत्वात् षत्वाभावे परिसेवते निसेवते विसेवते पर्यसेवत / सनि परिसिसेविषते। सिसेवे / णौ डे असिसेवत् / क्ते सेवितः / "क्तेटो-" 5 / 3 / 106 / इत्यः, सेवा // . केवृङ् / केवते 5 चिकेवे / णौ डे अचिकेवत् / उणादौ मृदि-कन्दि-" (उ० 465) इति अले केवलः // खेवृङ् / खेवते चिग्वेवे खेविता / णौ अचिखेवत् // गेवृङ् / गेवते जिगेवे / णौ डे अजिगेवत्॥ ग्लेवृङ् / ग्लेवते जिगेवे / णौ डे अजिग्लेवत् // पेवृङ् / पेवते 'पिपेवे / णौ हे अपिपेवत् // प्लेवृड् / प्लेवते पिप्लेवे। णौ डे अपिप्लेवत् // मेघृङ् / मेवते मिमेवे / णौ उ अमिमेवत् // म्लेवृङ् / म्लेवते मिम्लेवे / णौ ङे अमिम्लेवत् // 10 828 रेवृङ् 829 पवि गतौ / रेव प्लुतिगतावित्यन्ये / प्लुतिभिर्गतिः प्लुतिगतिः / रेवते रिरेवे रेविता / ऋदित्त्वाद् हस्वाभावे अरिरेवत् / “नाम्युपान्त्य-" 5 / 154 / इति के रेवा नर्मदा / उणादौ "तृ-जि-" (उ० 221) इति अन्ते रेवन्तः सूर्यपुत्रः / रेवती तुरीयतेर्विचि मतौ ड्या रूपम् // पवि / पवते पेवे पविता / "इ-ङितः" 5 / 2 / 44 / इति अने पवनः / / अथ शान्तौ द्वौ सेटौ चlo 830 काशृङ्दीप्तौ / काशते चकाशे काशिता / ऋदित्त्वाद् डे हूस्वाभावे अचकाशत् / अचि काशः आकाशः सङ्काशः प्रकाशः / “नामिनः काशे” 3 / 2 / 87 / इति दीर्घ प्रतीकाशः नीकाशः / घञि काशः। उणादौ "वनि-कणि-" (उ० 162) इति ठे काष्ठम् / “पदि-पठि-" (उ० 607) इति इः, काशिः // 831 क्लेशि बाँधने / क्लेशते चिक्लेशे क्लेशिता। ते क्लेशितः / "क्तटो-'" 5 / 3 / 106 / 20 इत्यः, केशा / घनि क्लेशः॥ अथ पान्ता द्वादश सेटश्च 832 भाषि च व्यक्तायां वाचि / प्रकृतेः परश्चकारः प्रकृतिमनुकर्षति, तेन क्लेशिषिश्च व्यक्तायां वाचि / क्लेशिरुदाहृत एव / भाषि / भाषते बभाषे भाषिता / णौ डे "भ्राज-मास-" 4 / 2 / 36 / इति वा हस्ते अबीभषत् अबभाषत् / क्ते भाषितः / "क्तेटो-"५।३।१०६। इति अः, भाषा / 25 घनि भाषः / ध्यणि भाष्यते इति भाष्यम् , करणे वा "बहुलम्"५।३।१॥ इति ध्यण् / "निन्द हिंस-" 5 / 2 / 68 / इति णके व्याभाषणशीलो व्याभाषकः // 1 "भीरुष्टानादयः" // 3 // 33 // 2 पिपेवे पेविता णौ इति मुद्रिते // 3 क्लेशि विधाधने प्र.। क्लेश व्यक्तायां वाचि इति धातु प्रदीप पृ. 45 धा० 607 / अत्र सायणः क्लेश अव्यक्तायां वाचि / याधन इति दुर्गः, अत्र स्वामी क्लेश व्यक्तायां वाचि चेति पठन् इमावपि पूर्वधातोरावेवाह / चन्द्र-दुर्ग-मैत्रेय-सम्मः / ताकार-देवादयस्तु धात्वन्तरमेवाहुः / इति माधवधा०पृ०११४ धा०५९९ // 4 भाषते भापिता संपा.१॥