________________ 205 आत्मनेधातवः 809-827] स्वोपलं धातुपारायणम् / इके कलिका कोरकम् , उत्कलिका ऊर्मिः / कलम इति तु कडत् मदे इत्यस्य "स-पृ-प्रथि-" (उ० 347) इति अमे डस्य लत्वे च सिद्धम् / “स्था-छा-मा-" (उ० 357) इति ये कल्यं प्रातः / "कुलि-लुलि-" (उ० 372) इति आये कलायः त्रिपुटधान्यम् / "मृदि-कन्दि-" (उ०४६५) इति अले कललं शुक्रशोणितमलः / “कल्यनि-महि-" (उ० 481) इति इले कलिलं व्याप्तम् / “ऋपृ-नहि-" (उ० 557) इति उषे कलुषं पापम् / “कलेर्मषः (उ० 562) कल्मषं पापम् / “कुलेश्च 5 माषक्” (उ० 563) कल्माषः शबलः / “कलि कुलिभ्यां मासक्” (उ०५८४) कल्मासः शबलः / "पदि-पठि-" (उ० 607) इति इः, कलिः / कलण् क्षेपे कालयति / अचि कालः / “णि-वेत्त्या-" 5 / 3 / 111 / इति अने कालना / "स्वरेभ्यः-"(उ० 606) इति इः, कालिः / कालिकेति तु कालात् चोराद्यकजि / कलण संख्यान-गत्योः अदन्तः, कलयति / कलना। "भीषि-भूषि-" 5 / 3 / 109 / इत्यत्र बहुवचनाद् अङि कला // ____10 815 कल्लि अशब्दे / शब्दस्याभावोऽशब्दम् तूष्णीम्भावः / शब्दार्थोऽयमित्येके / अव्यक्तशब्दार्थे इत्यपरे। कल्लते चकल्ले कल्लिता। अचि कल्लः / उणादौ "पिञ्छोल-कल्लोल-" (उ० 495) इति ओले कल्लोलः // अथ वान्ताश्चतुर्दश सेटश्च 816 तेवृङ्८१७ देवृङ् देवने / तेवते तितेवे तेविता / ऋदित्त्वाद् डे न इस्वः, अति- 18 तेवत् / यङि तेतेव्यते / यङ्लुपि तेतेवीति, पक्षे "अनुनासिके च-" 4 / 1 / 108 / इति वस्योटि गुणे च तेतयोति, कित्येवोडिति पक्षे “य्वोः-" 4 / 4 / 121 // इति वलकि तेतेति / मनि "अनुनासिके च-" 4 / 1 / 108 / इति वस्योटि गुणे च सुतयोमा / वनि "प्वोः-" 4 / 4 / 121 / इति वलुकि सुतेवा। विपि ऊटि सुतयूः / विचि “य्वोः-" 4 / 4 / 121 / इति वस्य लुकि सुतेः / तेरपवादः "क्तेटो-" 5 / 3 / 106 / इति अः, तेवा // देवृङ् / देवते दिदेवे देविता / ऋदि- 20 त्त्वाद् डे न इस्वः, अदिदेवत् / शेषं पूर्ववत् / “परेदेवि-" 5 / 2 / 65 / इति घिनणि परिदेवी / “उपसर्गाद देव-देवि-" 5 / 2 / 69 / इति णके आदेवकः / उणादौ "ऋच्छि-चटि-" (उ० 397) इति अरे देवरा / "मृदि-कन्दि-" (उ० 465) इति अले देवलः ऋषिः / देवट इति तु दीव्यतेः "दिव्यवि-" (उ० 142) इति अटे // 818 षेवृङ् 819 सेवृङ् 820 केवृङ् 821 खेवृङ् 822 गेवृह 823 ग्लेवृङ् 25 824 पेङ 825 प्लेवृङ् 826 मेवृङ् 827 म्लेवृङ् सेवने / सर्वे ऋदितः सेटश्च / ऋदित्त्वं ङपरे णावुपान्त्यहस्वाभावार्थम् / “षः सो-" 2 / 3 / 98 / इति सत्वे सेवते सिषेवे सेविता / ऋदित्त्वाद् डे हस्वाभावे षोपदेशत्वाच्च "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वे असिषेवत् / “परिनि-वेः सेवः” 2 / 3 / 46 / इति षत्वे परिषेवते निषेवते विषेवते / अव्यवायेऽपि पर्यषेवत इत्यादि / 1 कलिः सं 1 तपा. प्र. // 2 चोरादेः" 5113 / इति मूत्रम् // धा.पा. 14