________________ 104 आचार्यश्रीहेमयन्द्रविरचितं [भूषादि गणे पुञ्जः / “विष्टपोलप-" (उ०३०७) इति अपे निपातनात् उलपः / वलण प्राणने / घटादिश्वेत्येके / वलयति // वल्लि / वल्लते ववल्ले वल्लिता / क्ते वल्लितः / ते सेट्त्वात् "क्तेटो-"५।३।१०६। इति अः, वल्ला / अचि वल्लम् / उणादौ "कृ-श-ग-"(उ० 329) इति अभे वल्लभः / “मी-मसि-" (उ० 427) इति ऊरे वल्लूरं शुष्कमांसम् / “वडि-वटि-" (उ० 515) इति अवे वल्लवो 5 गोपालः / “पदि-पठि-" (उ० 607) इति इ., वल्लिलता / “नदि-वल्लि-" (उ० 698) इति अरौ वल्लरिमञ्जरी // 809 शलि चलने च / चकारात् संवरणे / तालव्यादिः / शलते शेले शलिता / उणादौ "भीण्शलि-"(उ० 21) इति के शल्कः शरणम् / “शलि-बलि-" (उ० 34) इति आके शलाका / - "शल्यर्णित्” (उ० 59) इति ऊके शालूकः / " कृ-श-गृ-" (उ० 329) इति, अमे शलभः / 10 "स्था-छा-मा-” (उ० 357) इति ये शल्यम् , यावादित्वात् के शल्यकः / “मृदि-कन्दि-" (उ० 465) इति अले शललं श्वावित् सूची / शलमिति तु अचि / “कमि-वमि-"(उ०६१८) इति णिदिः, शालिः / “शलेराटुः” (उ० 763) शलाटुः कोमलं फलम् / “लस्जीष्यि-शलेरालुः" (उ० 822) शलालवृक्षावयवः / शल गतौ ज्वलादिः / शलति / “वा ज्वलादि-" 5 / 1 / 62 / इति णे शाला / अचि शलं श्वाविद्रोम / / 16 810 मलि 811 मल्लि धारणे / मलते मेले मलिता / अचि मलः / कर्मणि पनि माला। उणादौ "कु-गु-वलि-" (उ० 365) इति अये मलयो गिरिः / “महि-कणि-" (उ० 428) इति ऊरे मालरो बिल्वः / चुरादेराकृतिगणत्वाच्चुरादावदन्तः / मलयति / अलि परिमलः // माल्ले / मल्लते ममल्ले मल्लिता / अचि मल्लः, गौरादित्वाद् ड्याम् मल्ली विचकिलः / णकें मल्लकः, स्त्रियाम् मल्लिका / उणादौ दृ-कृ-नृ-" (उ० 27) इति अके मल्लकः शरावः, मल्लिका विचकिल: 20 शरावश्च // 812 भलि 813 भल्लि परिभाषण-हिंसा-दानेषु / भलते बभले भलिता। भलिस्थाने ओष्ठ्यादि बलिमेके पठन्ति, बलते / “अनादेशादे:-" 4 / 1 / 24 / इत्येत्व-द्वित्वाभावयोः बेले / भलिए आभण्डने / निभालयते / उणादौ "मृ-मन्यञ्जि-" (उ०५८) इति ऊके भालूक ऋक्षः // ___ भल्लि / भल्लते बभल्ले भल्लिता / करणे "व्यञ्जनाद्-" 5 / 3 / 132 / इति घञि भल्लः क्षुरपः / 25 उणादौ “कणि-भल्लेीर्घश्च वा" (उ० 60) इति ऊके भल्लूको भाल्लूकश्च ऋक्षः / “पदि-पठि-" (उ०६०७) इति इः, भल्लिः // 814 कलि शब्द-सङ्ख्यानयोः। कलते आकलते सङ्कलते परिकलते प्रत्याकलते विकलते। चकले कलिता / अचि कलः / कर्मणि पनि कालः / “तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अके कलिका / उणादौ "भीण्शलि-"(उ०२१) इति के कल्को दम्भः / “क्री-कलि-" (उ० ३८)इति 1 "यावादिभ्यः कः" // 3 // 15 // 2 च सं 1 तपा० नास्ति //