________________ 102 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे चयते चेये चयिता / घञि चायः / चय इति तु चिनोतेः अलि // रयि / रयते रेये रयितेत्यादि / 797 तयि 798 णयि रक्षणे च / चकाराद् गतौ / तयते तेये तयिता / "णिन् चावश्यका-" 5 / 4 / 36 / इति णिनि तायी // णयि। “पाठे धात्वादेः-" 2 / 3 / 97 / इति णस्य 5 नत्वे नयते / णोपदेशत्वाद् “अदुरुपसर्गान्तरो-" 2 / 3 / 77! इति णत्वे प्रणयते / नेये नयिता / मन्नादिषु पूर्ववद् // 799 दयि दान-गति-हिंसा-दहनेषु च / चकाराद् रक्षणे / “स्मृत्यर्थ-दयेशः" 2 / 2 / 11 / इति कर्मणो वा कर्मत्वे "शेषे” 2 / 2 / 81 // इति षष्ठयाम् दानस्य दयते, दानं दयते / “दया ऽया-ऽऽसू.-" 3 / 4 / 47) इति परोक्षाया आमि दयाञ्चक्रे / दयिता / क्ये दय्यते, अत्र "वोः 10 प्वय्-" 4 / 4 / 121 / इत्यत्र यि वर्जनाद् यलोपाभावः / “शीङ्-श्रद्धा-" 5 / 2 / 37 इति आलो दयालुः / दयनं दयन्ते प्राणिनोऽनयेति वा यथाक्रमं क्त्यनटोरपवादे भिदादित्वाद् अधि दया / ते दयितः। दयेरेव कर्मणा वा कर्मत्वविधानाद् दें पालने इत्यस्य कर्मणि द्वितीयैव भवति, मातरं दयते // 800 ऊयैङ् तन्तुसन्ताने / ऊयते / “गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि 15 ऊयाञ्चके / ऊयिता / ऐदित्त्वात् क्तयोर्नेट्, ऊतः ऊतवान् / मनि यलुकि गुणे च स्वोमा / एवं बन्नादिष्वपि // 801 पूयैङ् दुर्गन्ध-विशरणयोः। पूयते पुपूये पूयिता। ऐदित्त्वात् क्तयोर्नेट् , पूतः पूतवान् / अचि पूयः, स्त्रियां गौरादित्वाद् ड्याम् पूयी। क्तौ पूतिः, अत्र तेऽनिट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यप्रत्ययो न भवति / उणादौ "ह-मुषि-" (उ० 651) इति किति तौ पूर्तिर्दुर्गन्धः // 20 802 क्नूयैङ् शब्द-उन्दनयोः / उन्दनं क्लेदनम् / दुर्गन्धेऽपीत्येके / क्नूयते चुक्नूये क्नूयिता / ऐदित्त्वात् क्तयोर्नेट् , क्नूतः नूतवान् / णौ “अर्ति-री-" 4 / 2 / 21 / इति पौ "पुस्पौ" 4 / 3 / 3 / इति गुणे "वोः-" 4 / 4 / 121 / इति यलुकि च क्नोपयति / “चेलार्थात् क्नोपेः" 5 / 4 / 58 // इति णमि चेलक्नोपं वृष्टो देवः / “न णिङ्-य-" 5 / 2 / 45 / इति प्रतिषेधाद् अनाभावे तृनि क्नूयनशीलः क्नूयिता // 25 803 क्षमायैङ् विधूनने / क्ष्मायते चक्ष्माये मायिता / ऐदित्वात् क्तयोर्नेट्, मातः क्ष्मा तवान् / णौ "अर्ति-री-" 4 / 2 / 21 / इति पौ "प्वोः-" 4 / 4 / 121 // इति यलकि मापयति / तृनि पूर्ववत् क्ष्मायिता // 804 स्फायैङ् 805 ओप्यायै वृद्धौ / स्फायते पस्फाये स्फायिता / ऐदित्त्वात् क्तयो१ मन-धनप्रसूतिकृदन्तप्रत्ययेषु // 2 कलिशब्दे इति शाकटायनः //