________________ 101 मात्मनेधातवः 788-796] स्थोपझं धातुपारायणम् / इति अठे कमठो भिक्षाभाजनम् / “ऋच्छि-चटि-" (उ०३९७) इति अरे कमरो मूर्खः / “कमेरत उच्च" (उ० 409) इति आरे कुमारः / “मृदि-कन्दि-" (उ० 465) इति अले कमलम् , णिकि कामलः [नेत्ररोगः] / “मुरलोरल-" (उ० 474) इति अले निपातनात् कोमलम् / “कमि-तिमेदोंऽन्तश्च" (उ० 54) इति उके कन्दुकः / “शमि-कमि-पलिभ्यो बलः" (उ०४९९) कम्बलः / “मावा-वदि-"(उ० 564) इति से कंसः / “कृसि-कमि-" (उ० 773) इति तुनि कन्तुः कन्दर्पः // 5 अथ यान्ताः सप्तदश सेटश्च 790 अयि 791 वयि 792 पयि 793 मयि 794 नयि 795 चयि 796 रयि गतौ / अयते / “उपसर्गस्यायौ" 2 / 3 / 100 / इति लत्वे पलायते पल्ययते / “दया-ऽयाऽऽस्-" 3 / 4 / 47 / इति परोक्षाया आमि पलायाञ्चक्रे / पलायिता / अनटि निलयनम् दुलयनम् / निर्दुसोस्तु सो रुत्वस्य परे लत्वेऽसिद्धत्वात् निरयणम् , अत्र "स्वरात्" 2 / 3 / 85 / इति नस्य 10 णत्वम् / “अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इत्यत्र दुरो वर्जनात् "स्वरात्" 2 / 3 / 85 / इति णत्वामावे दुरयनम् / मनि “य्वोः-"४।४।१२१। इति यलोपेऽकारान्ताद् विहितेऽशिति “अतः" 4 / 3 / 82 / इति लोपविधानादस्य लोपाभावे स्वमा; ये त्वत्राप्यल्लुकमिच्छन्ति तन्मते सुमा / विपि "वो:-"४।४।१२१॥ इति यलुकि "हस्वस्य-" 4 / 4 / 113 / इति ते स्वत् ; ये त्वत्रापि “अतः" 4 / 3 / 82 / इत्यल्लोपमिच्छन्ति तन्मते सुत् ; ये त्वन्तरङ्गं तागमं प्रति बहिरङ्गस्य यलुकोऽसिद्ध- 15 त्वमिच्छन्ति तन्मते स्वः / विचि यलुकि स्वः / क्तौ “य्वोः-" 4 / 4 / 121 / इति यलुकि अतिः, अल्लुक्पक्षे तु तिः // वयि / वयते / “न शस-"४।१।३०। इत्येत्वनिषेधाद् ववये / वयिता। मनि “य्वो:-"४।४।१२१। इति यलुकि सुवमा; अल्लुक्पक्षे सुव्मा, अत्र "खरस्य परे प्राग्विधौ" .7 / 4 / 110 / इति स्थानित्वाद् “अनुनासिके च-” 4 / 1 / 108 / इति वस्योट् न भवति / उणादौ "सृ-वयिभ्यां णित्” (उ० 570) इति असे वायसः / “अम्" (उ० 952) इति असि वयः पक्षी 20 पास्यादि च // पयि / पयते पेये पयिता / मनि यो लुकि सुपमा, अल्लुक्पक्षे सुप्मा / एवं पनि सुषवा सुप्वा / क्तौ पतिः प्तिः। [उणादौ] “असू” (उ० 952) इति असि पयः, पिबतेर्वा "पा-हाक्भ्यां पय-यौ च" (उ० 953) इति असि // मयि / मयते मेये मयिता / अचि मयः // नयि / नयते नेये नयिता / अणोपदेशत्वाद् णत्वाभावे प्रनयिता / मनि यो लुकि सुनमा, अल्लुक्पक्षे सुन्मा / एवं बनि सुनवा सुन्वा / किपि यलुकि "हस्वस्य-" 4 / 4 / 113 / इति 25 ते च सुनत् सुनतौ सुनतः / सू सूनी सूनः, अत्राल्लुक् "स्वरस्य परे प्राग्विधौ' 7 / 4 / 110 / इति स्थानित्वस्य 'न सन्धि-" 7 / 4 / 111 / इति प्रतिषेधात् “नि दीर्घः' 1 / 4 / 85) इति दीर्घः "नाम्नो नोऽनहः” 2 / 1 / 91 / इति नस्य लुक् च भवति / क्तौ नतिः न्तिः // चयि / 1 "स्मायकको' इति सं१ बिना सर्वत्र मुट्वेिऽपि //