________________ 100 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 788 क्षमौषि सहने / क्षमते चक्षमे / औदित्त्वाद् वेट्, क्षमिता क्षन्ता, क्षमितव्यम् क्षन्तव्यम् / “शकि-तकि-" 5 / 1 / 29 / इति ये क्षम्यम् / षित्त्वादङि क्षमा / क्षमौच सहने इत्यस्य तु स्त्रियां तौ शान्तिः / वेट्त्वात् क्तयोर्नेट्, क्षान्तः क्षान्तवान् / उणादौ “गमि-जमि-" (उ० 937) इति डिति अमि क्षं भार्या / "क्रमि-गमि-क्षमेस्तुमाच्चातः” (उ० 942) क्षान्तुं भूमिः तुमर्थश्च / b क्षमौच सहने क्षाम्यति // 789 कम कान्तौ / कान्तिरभिलाषः। “कमेणि' 3 / 4 / 2 / इति णिङि कामयते / "अशवि ते वा" 3 / 4 / 4 / इति वा णिङि कम्यते काम्यते / “णि-श्रि-" 3 / 4 / 58 / इति के अचकमत अचीकमत / चकमे / “धातोरनेकस्वरात्-"३।४।४६। इति परोक्षाया आमि कामयाञ्चके / कमिता कामयिता / “ऊदितो वा” 4 / 4 / 42 / इति क्त्वि वेट्, कान्त्वा कमित्वा कामयित्वा / "ज्ञानेच्छा-" 10 5 / 2 / 92 / इति वर्तमाने क्तः, कान्तः, अत्र “वेटोऽपतः" 4 / 4 / 62 / इति नित्यमिडभावः। णिङि कामितः ।क्तौ कान्तिः। “णि-वेत्त्या-'५।३।१११। इति अने कामना / अनटि कमनम् कामनम् / "न ख्या-पूग-"२।३।९०। इति प्रतिषेधाद् “अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इत्यधिकृत्य "स्वराद्" 2 / 3 / 85 / इति "णेर्वा" 2 / 3 / 88 / इत्यनेन च णत्वं न भवति, प्रकमनम् प्रकामना / "कर्मणोऽण्" 5 / 1172 / इति अणि धर्मकामी / णिङि "शीलि-कामि-" 5 / 173 / इत्यणोपवादे णे धर्मकामा / 15 "अतः कृ-कमि--" 2 / 3 / 5 / इति रेफस्य सत्वे पयस्कोमः / “शकि-तकि-" 5 / 1 / 29 / इति ये कम्यम् / णिङि “य एचातः" 5 / 1 / 28 / इति ये काम्यम् / णिड्यानशि कामयमानः, अत्र शन्विपयत्वाद नित्य णिङ् “अमोऽकम्यमि-"४।२।२६। इत्यत्र कमेर्वर्जनाद् इस्वाभावश्च / कथं कामयानः ? कामो यानमस्येति बहुव्रीहौ कामयानः, कामगतिरित्यर्थः; आनशि वाऽऽगमशासनस्यानित्यत्वाद् माभावः। यद् वामन:-"कामयानः सिद्धोनादिश्चेति"। "मोऽकमि--"४।३।५५। इत्यत्र कमेर्वर्जनाद् 20 वृद्धिप्रतिषेधाभावे घनि कामः / "श-कम-" 5 / 2 / 40 / इति उकणि कामनशीलो दास्याः कामुकः, अत्र "अकमेएकस्य" 2 / 2 / 93 / इत्यत्र कमेर्वर्जनात् प्रतिषेधाभावे "कर्मणि कृतः" 2 / 2 / 83 // इति षष्ठी / “स्म्यजस-" 5 / 2 / 79 / इति रे कनः / “न णिङ्-य-" 5 / 2 / 45/ इत्यत्र दीपिग्रहणादुसर्गस्यापि समावेशे "इडितो-'" 5 / 2 / 44 / इति अने कमनः / उणादौ मृ-ज-श-" (उ०१६७) 1 इदमुद्राहरणं णिभावे वेदितव्यम् अन्यच्च णिङ्भावे // 2 शीलादिरयम्, तथा चाहु:-'शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः / संयतः शयितस्तुष्टो रुष्टो रुषित आशितः // 1 // कान्तोऽभिव्याहतो हृष्टस्तृप्तः सप्तः स्थितो मृतः / अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ // 2 // संरब्धारब्धदयिता दिग्धः स्निग्धो ऽवतीर्णकः / आरूढो मूढ आयस्तः क्षुधितक्लान्तवीडिताः // 3 // मतश्चैव तथा क्रुद्धः श्लिप: सुहित इत्यपि / लिप्तहप्तौ च विज्ञेयौ सति लग्नादयस्तथा // 4 // इति शीलादयः // 3 "शीलि-कामि-भक्ष्या चरीक्षिक्षमो जः" 5 / 1173 // इत्यत्र कामीति ण्यन्तनिर्देशात् 'अण्प्रत्ययान्तोऽयं प्रयोगः, अण्यन्तनिर्देशे च "अतः कमिकंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य" 21315 / इत्यत्र केवलस्यैव कमेग्रहणात सकारादेशः, ण्यन्तस्य सति पयःकाम इत्येव भवति, त्रियां तु पयःकामा, अणन्तस्य पयस्कामी इति //