________________ आत्मनेधातवः 774-787] स्वोपझं धातुपारायणम् / 785 रभिं रामस्ये / राभस्य कार्योपक्रमः। “रभोऽपरोक्षा-शवि” 4 / 4 / 102 / इति शव्-परोक्षयोर्वर्जनाद् नस्याभावे आरभते आरेभे / अनुस्वारेत्त्वान्नेट् ,आरब्धा आरब्धुम् / [सनि] “रभलभ-"४।१।२१। इति स्वरस्यत्वे द्वित्वाभावे च आरिप्सते / घञि आरम्भः / णौ आरम्भयति / णके आरम्भकः / “साधौ" 5 / 1 / 155 / इति णिनि साध्वारम्भी / “ख्णम् चाभीक्ष्ण्ये" 5 / 4 / 48 / इति णमि आरम्भमारम्भं याति / अचि रम्भः, स्त्रियाम् रम्भा / अनटि आरम्भणम् / एषु "रभोऽपरोक्षा-'" 5 4 / 4 / 102 / इति नः / “शकि-तकि-" 5 / 1 / 29 / इति ये रभ्यम् आरभ्यम् संरभ्यम् / “शकधृष-" 5 / 4 / 90 / इति तुमि आरभते भोक्तुम् / उणादौ "दिवादि-" (उ० 572) इति कित्ति असे रभसो निर्विचारा प्रवृत्तिः // 786 डुलभिं प्राप्तौ / शव्-परोक्षयोर्वर्जनाद् "लभः" 4 / 4 / 103 / इति नस्याभावे लभते लेभे; अन्यत्र स्वरे ने आलम्भयति, आलम्भकः, साध्वालम्भी, आलम्भमालम्भं याति, आलम्भो 10 वर्तते। अनुस्वारेत्त्वान्नेट्, लब्धा लब्धुम् / "शकि-तकि-' 5 / 1 / 29 / इति ये लभ्यम् / “आङो यि" 4 / 4 / 104 / इति ने आलम्भ्यम् / “उपात् स्तुतौ” 4 / 4 / 105 / इति ने उपलम्भ्यं धनम् / नित्वात् त्रिम, लब्ध्रिमम् / पित्त्वाद् अङि “लभः" 4 / 4 / 103 / इति ने "नो व्यञ्जनस्या-" 4 / 2 / 45 इति नलुकि लभा उपलभा / "श्यादिभ्यः" 5 / 3 / 92 / इति क्तौ लब्धिः उपलब्धिः / "नि-रणमोर्वा" 4 / 4 / 106 / इति वा ने अलाभि अलम्भि, लाभलाभम् लम्भलम्भम् / “उपसर्गात् 15 खल्-घोश्च" 4 / 4 / 107 / इति ने दुष्प्रलम्भः उपलम्भः उपालम्भि उपलम्भमुपलम्भम् / “सु-दुर्यः" 4 / 4 / 108 / इति ने अतिसुलम्भम् अतिदुर्लम्भम् अतिसुलम्भः अतिदुर्लम्भः / केवले यस्तु नस्याभावे सुलभम् दुर्लभम् सुलाभः दुभिः / “रभ-लभ-" 4 / 1 / 21 / इति स्वरस्येत्वे द्वित्वाभावे च सनि लिप्सते भोक्तुम् , अत्र "शक-धृष-" 5 / 4 / 90 / इति तुम् // अर्थ मान्तात्रयः सेटश्च 787 भामि क्रोधे / भामते बभामे भामिता / यङि बाभाम्यते, अत्रातः परस्यानुनासिकस्याभावाद् "मुरतो-" 4 / 1 / 51 // इति पूर्वस्य मुरन्तो न भवति, ये त्वत इति पूर्वस्य विशेषणं प्रतिपन्नास्तन्मते मौ बम्भाम्यते / यङ्लुपि वस्-मसोः “मो नो-" 2 / 1 / 67 / इति मस्य नत्वे बाभान्वः बाभान्मः बम्भान्वः बम्भान्मः / क्विपि पदान्ते मो नत्वे प्रभान् , “नाम्नो नोऽनह्नः" 2 / 1 / 91 / इति नलग् न भवति, नत्वस्यासिद्धत्वात् / आवश्यके णिनि भामिनी / घञि भामः। उणादौ “पञ्चमाद् 25 ड:" (उ० 168) इति डे भाण्डम् / / 1 रभ्यम् शक इति संपा.१। खे० तु रभ्यम् आरभ्यम् शक इति // 2 °विचारा वृत्तिः संपा०१ वा० प्र० // 3 कथं तर्हि अतिसुलभम् अतिदुर्लभमिति ? अत्रातेः पूजातिकमार्थत्वादनुपसर्गत्वम् , तेम मनोन्तः इति //