________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे 774 गल्भि धायें / गल्भते प्रजगल्भे गल्भिता / अचि प्रगल्भः / "क्तेटो-"५।३।१०६। इति अः, प्रगल्भा / प्रगल्भ इवाचरतीति [ “कर्तुः किप्] गल्भ-क्लीब-होडात् तु-" 3 / 4 / 25 / इति डिति क्विपि "धातोरनेकस्वरात्-" 3 / 4 / 46 / इति परोक्षाया आमि प्रगल्भाश्चक्रे, विपो ङित्त्वादात्मनेपदम् // 775 रेभृङ् 776 अभुङ् 777 रभुङ् 778 लभुङ् शब्दे / रेभते रिरेभे रेभिता। ऋदित्त्वाद् डे न हस्वः, अरिरेभत् / "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनाद् विरिब्धः स्वरः, विरेभितमन्यत् // अभुङ् / उदित्त्वाद् ने अम्भते / “अनातो-" 4 / 1 / 69 / इति पूर्वयाऽऽत्वे ने च आनम्भे / अम्भिता / अम्भ इति तु "अमेर्भ-हौ चान्तौ"(उ० 962) इति अमते' रूपम् // रभुङ् / उदित्त्वाद् ने रम्भते ररम्भे रम्भिता / अचि रम्भा कदली / करम्भो दधि10 सक्तवः / ते रम्भितः॥ लभुङ् / उदित्त्वाद् ने लम्भते ललम्भे लम्भिता / ते लम्भितः / अचि पनि वा लम्भः // 779 ष्टभुङ् 780 स्कभुङ् 781 ष्टुभृङ् स्तम्मे / स्तम्भः क्रियानिरोधः / “षः सो-" 2 / 3 / 98 / इति सत्वे उदित्त्वाद् ने च स्तम्भते तस्तम्भे स्तम्भिता / अचि पनि वा स्तम्भः / “अङ प्रतिस्तब्ध-निस्तब्धे-" 2 / 3 / 41 / इति षत्वे विष्टम्भः / “अवाचाश्रयोर्जा-" 2 / 3 / 42 / इति षत्वे 16 अवष्टम्भते दण्डम् , अवष्टम्भते शूरः / “उदः स्था-" 1 / 3 / 44 / इति सलुकि उत्तम्भते / णौ सनि पत्वे तिष्टम्भयिषते / टपरः षकारोऽयमित्येके, तन्मते टिष्टम्भयिषते टाष्टम्भ्यते। विष्टम्भ्यते / स्तभ्यते इति तु स्तभ्नातेः // स्कभुङ् / उदित्त्वाद् ने स्कम्भते स्कम्भ्यते चस्कम्मे स्कम्भिता / विष्कभ्यते इति तु स्कभ्नातेः / स्तम्भू स्कम्भू सौत्रौ स्तः, स्तभ्नाति स्तभ्नोति, स्कभ्नाति स्कन्नोति / “स्कभ्नः-"२।३।५५। इति षत्वे विष्कम्भः // ष्टुभूङ् / “घः सो-"२।३।९८। 20 इति सत्वे स्तोभते दोषः। षोपदेशत्वात् षत्वे तुष्टुमे। “उपसर्गात् सुग्-" 2 / 3 / 39 / इति षत्वे अभिष्टोभते / ऊदित्त्वाद् “उदितो वा" 4 / 4 / 42 // इति क्त्वि वेट , स्तुन्धवा; इटि “वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति वा कित्त्वे स्तुभित्वा स्तोभित्वा / वेट्त्वात् क्तयोर्नेट् , स्तुब्धः स्तुब्धवान् / घनि स्तोभः / उणादौ “ककुप्-' (उ० 932) इति कर्मणि क्विपि त्रिष्टुप् अनुष्टुप् / स्तम्भू इति सौत्रस्य स्तुभ्नाति स्तुभ्नोति // 25 782 जभुङ् 783 जभैङ् 784 जुभुङ्गात्रविनामे / जभुङ् / उदित्त्वाद् ने जम्भने जम्भ्यते जजम्भे / ते जम्भितः। अने जम्मनः॥ जभैङ् / “जभः स्वरे" 4 / 4 / 100 / इति मे जम्भते जम्भिता। ऐदित्त्वात् क्तयोर्नेट् , जब्धः जब्धवान् // जुभुङ् / उदित्त्वाद् ने जृम्भते जम्भे जृम्भिता जृम्भितः जृम्भितवान् / क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, जृम्भा घञि जृम्भः॥ 1 अम गतौ इत्यस्य सं०1 दि. // 2 विष्टम्भ्यते संपा०१ तपा० नास्ति //