________________ 10 आत्मनेधातवः 758-773] स्वोपलं धातुपारायणम् / अथ वान्ताः षट् सेटश्च 764 अबुङ् 765 रबुङ् शब्दे। उदित्त्वान्ने अम्बते / “अनातो-" 4 / 1 / 69 / इति पूर्वस्याऽऽत्वे ने च आनम्बे / अचि कर्मणि घञि वा अम्बा / उणादौ "शा-मा-श्या-" (उ० 462) इति ले अम्ब्लो रसः // रबुङ् / उदित्त्वान्ने रम्बते ररम्बे रम्बिता / के रम्बते इत्यचि करम्बः, कृगो वा "कृ-कडि- 5 कटि-" (उ० 321) इति अम्बे करम्बः // 766 लबुङ् अवलंसने च / चकाराच्छब्दे / उदित्त्वान्ने लम्बते प्रलम्बते अवलम्बते आलम्बते उल्लम्बते विलम्बते इत्यनेकार्थत्वमुपसर्गद्योतितमन्यत्राप्युदाहार्यम् / णके लम्बिका त्रिकटा, विलम्बिका शकृद्विलम्बः / अचि लम्बः / उणादौ "नको लम्बेर्नलुक् च" (उ० 838) इति णिदू:, अलाबूः / अलम्बुसेति त्वलतेरम्बुसे अलम्बुसा नाम शाकम् // 767 कबृङ् वर्णे / वर्णो वर्णनं शुक्लादिश्च / कबते चकबे कविता / ऋदित्त्वाद् डे न हूस्वः, अचकावत् / व्यणि काव्यम् / उणादौ “जठर-"(उ० 403) इति अरे कबरः कबरी / “पदि-पठि-" (उ० 607) इति इः, कविः / कर्बुर इति तु कर्बेरोष्ठयान्तस्य “वाश्यसि-" (उ० 423) इति उरे // 768 क्लीबृङ् अधायें / क्लीबते चिक्लीबे क्लीबिता / ऋदित्त्वाद् के अचिक्लीबत् / “नाम्यु-15 पान्त्य-"५।१।५४। इति के क्लीबः / ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अश्व, क्लीबा विक्लीबा / / __769 क्षीबृङ्मदे / क्षीबते चिक्षीबे क्षीबिता / ऋदित्त्वाद् डे अचिक्षीबत् / “नाम्युपात्य-" 5 / 1 / 54 / इति के क्षीवः प्रक्षीबः / क्तयोः “अनुपसर्गाः क्षीबो-" 4 / 2 / 80 / इति निपातनात् क्षीवः क्षीबवान् , उपसर्गात्तु प्रक्षीबितः प्रक्षीबितवान् / एते च कबृङादयो यद्यपि दन्त्यौष्ठ्यान्ता अपि काव्यादिशब्देषु श्रूयन्ते तथापि वृद्धरोष्ठयान्त्यमध्ये पठितत्वादस्माभिस्तथैव पठिताः / / 20 अथ भान्ताः सप्तदश रभि-लभिवर्जा सेटश्च 770 शीभृङ् 771 वीभृङ् 772 शल्भि कत्थने / शीभते शिशीभे शीभिता / ऋदित्त्वाद् उ अशिशीभत् / उणादौ "ऋच्छि-चटि-" (उ० 397) इति अरे शीभरो हस्तिहस्तमुक्तो जललवः // वीभृङ् / वीभते विवीमे वीभिता / ऋदित्त्वाद् डे अविवीभत् // शल्भि / शल्भते शशल्मे शल्भिता / उ अशशल्भत् / त्रयोऽपि क्ते सेट इति "क्तेटो-"५।३।१०६। 25 इति अः, शीमा वीमा शल्भा // 773 वल्भि भोजने / वल्भते ववल्भे वल्भिता। घञि वल्भः // 1 अली भूषणपर्याप्तिवारणेषु इत्येतस्य "अलेरम्बुसः" (उ० 585) इति अम्बुसप्रत्ययः // . २"च्छि-चटि-" (उ० 397) इति कुंक शन्दे इत्यस्माद् अरेऽपि कबरः इति उणादिगणविवृतौ / / 3 आधाष्टये संपा.१ सं१ वप्प. बा. .॥४कथने संपा. 1 वा.॥