________________ भाचार्यश्रीहेमचन्द्रविरचितं [भूरादिगणे विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् , तेनाचि णेर्गुणे कम्पया स्त्री / “लङ्गिकम्प्यो:-" 4 / 2 / 47 / इति नलुकि विकपितः; अङ्गविकृतेरन्यत्रोदित्वान्नलोपाभावे कम्पितैः / शीलाद्यर्थविवक्षायाम् “चालशब्दार्थात्-" 5 / 2 / 43 // इति अने कम्पनः / “स्म्यजस-" 5 / 3 / 79 / इति रे कम्प्रः / "क्तेटो-'" 5 / 2 / 106 / इति अः, कम्पा / उणादौ "अम्भि-कुण्ठि-" (उ० 614) इति इर्नलुक् च, कपिः / 5 कपोल इति तु कपे सौत्रस्य ओले / केपृङ्-गेपृडौ गतावपि [अन्ये] // 758 ग्लेपृङ् दैन्ये च। चकाराच्चलने / गतावप्यन्ये / ग्लेपते जिग्लेपे ग्लेपिता / ऋदित्त्वाद् डे न ह्रस्वः, अजिग्लेपत् // 759 मेपृङ् 760 रेपृङ् 761 लेपृङ् गतौ / मेपते मिमेपे मेपिता। ऋदित्त्वाद् उ ने ह्रस्वः, अमिमेपत् // . रेपृङ् / रेपते रिरेपे रेपिता / ऋदित्त्वाद् डे अरिरेपत् / रेप शब्दे10 sपीत्येके // लेपृङ् / लेपते लिलेपे लेपिता / ऋदित्त्वाद् उ अलिलेपत् / क्ते लेफ्तिः / देशान्तरप्राप्तिहेतुर्गतिः, तत्रैव स्थितस्य स्पन्दनं चलनमिति पृथगेषां पाठः / पृड् चेति कौशिकः॥ 762 त्रपौषि लजायाम् / त्रपते / "तृ-त्रप-फल-" 4 / 1 / 25 / इत्येत्वे द्वित्वाभावे च त्रेपे। औदित्त्वाद् वेट् , त्रप्ता त्रपिता। “वेटोऽपतः" 1 / 4 / 62 / इति क्तयोर्नेट् , त्रप्तः त्रप्तवान् / “आसु-युबपि-" 5 / 1 / 20 / इति यापवादे व्यणि अपत्राप्यम् / “भ्राज्यलकृग्-" 5 / 2 / 28 / इति इष्णौ 16 अपत्रपाशीलादिः अपत्रपिष्णुः / षित्वादङि, त्रपा अपत्रपा / उणादौ "भृ-मृ-त-” (उ० 716) इति उः, पु॥ 763 गुपि गोपन-कुत्सनयोः / गर्दायां सनि जुगुप्सते / “अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति" न व्यभिचरति च गुपिर्गीयां सन्नन्तसमुदा-. यमिति, "इ-डित:-" 3 / 3 / 21 / इत्यात्मनेपदम् , “स्वार्थे" 4 / 4 / 60 इतीडभावः / इच्छासनन्ता20 देव सनो निषेधात् “तुमर्हात्-"३।४।२१। इति सनि जुगुप्सियते / “शंसिप्रत्ययात्-" 5 / 3 / 105 / इति अः, जुगुप्सा। गर्हाया अन्यत्र सनोऽभावे अर्थान्तरेऽपि प्रायेण त्यादयो नाभिधीयन्ते इत्यत्र प्रायोग्रहणात् गोपते / अनटि गोपनम् / क्तौ गुप्तिः। गुपौ रक्षणे गोपायति। गुपच् व्याकुलत्वे गुप्यति / भासार्थः गोपयति // 1 विकृतशरीरः // 2 चित्ते भीत इत्यर्थः // 3 “कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिभ्य ओलः” (उ. 493) इति सूत्रेण // 4 "के गेट ग्लेपृ च चकारात् कम्पने गतौ च / सूत्रविभागादिति स्वामी मैत्रेयस्त चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षते इत्याह" इत्यादि-मा• धा• धातुअं० 367 पृ. 83 // 5 न हस्वः इति तु प्र. एव // 6 "मैत्रेयस्त मे लेपृ सेवने। रेपृ प्लवगतो-इत्याह"-मा० धा. धातु. 370 पृ. 83 / 7 चलनार्थेन '754 टुवेपृद्ध' इत्यादिधातुकदम्बकेन सहैव '759 मेपूल' इत्यादिधातुत्रिकस्य पाठः श्रेयान् चलन-गत्योरमेदात्-इत्याशकायामाह-गति-चलनयो भेदः-गतिः स्थानान्तरगमनम् चलनं तु स्थानान्तरगमनाभावेऽपि गतिरहितस्य-स्थितस्य-अपि संभवति इत्यतः 'मेघ' इत्यादित्रिकस्य पृथक् पाठः। ८अपः बे. संपा। . सं.२ तपा. प्र. // 9 प्राथग्रह खे. संपा। सं१-२ तपा० // .