________________ भात्मनेधातवः 743-757] स्पोपलं धातुपारायणम् / * अथ नान्तौ द्वौ सेटौ च-- 748 पनि स्तुतौ / “गुपौ-धूप-" 3 / 4 / 1 // इत्याये पनायति जिनम् , इ-ङित्त्वाभावादत्र "शेषात्परस्मै-" 3 / 3 / 100 / इति परम्मैपदम् / ये तु स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहणाद् यथा 'आय' प्रत्ययान्तस्य प्रकृत्यर्थवाचित्वं तथेदित्त्वमपीति प्रतिपन्नास्तन्मते "इ-डितः कर्तरि" 3 / 3 / 22 / . इत्यात्मनेपदे पनायते जिनम् / एवं पणायते / “अशवि ते वा"३।४।४। इति वा आये पनायिष्यते पनि- 5 प्यते / उणादौ “तप्यणि-" (उ० 569) इति असे पनसः फलवृक्षः। फनस इति तु फेणेः “फनस-तामरसादयः” (उ० 573) इति असे निपातनात् // 749 मानि पूजायाम् / विचारे "शान्-दान्-मान्-'" 3 / 4 / 7 / इति सनि पूर्वस्येतो दीर्घ च मीमांसते धर्मम् / “शंसिप्रत्ययात्" 5 / 3 / 105 / इत्यः, मीमांसा / अर्थान्तरे घञि मानः / अनटि माननम् / णौ मानयति / उणादौ "मा-वा-वदि-" (उ० 564) इति से मांसम् / “मानि-भाजेर्लक् 10 च" (उ० 859) इति तृः, माता / मानण् पूजायाम् “युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि मानयति मानति // अथ पान्ताश्चतुर्दश सेटश्च 750 तिपृङ्घ 751 ष्टिपृङ् 752 टेपङ क्षरणे / तेपते तितिपे तेपिता / 'आगमशासनमनित्यम्' इतीडभावे तेप्ता / ऋदित्वाण्णौ डे अतितेपत् / “वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति 15 क्त्वा-सनोर्वा कित्त्वे तिपित्वा तेपित्वा, तितिपिषते तितेपिषते // टिपृङ् / “षः सो-"२।३।९८। इति सत्वे स्तेपते / षोपदेशत्वात् षत्वे तिष्टिपे। स्तेपिता। ऋदित्त्वाद् डे न हूस्वः, अतिष्टेपत् / क्ते स्तिपितः // टेपृङ् / “षः सो-" 2 / 3 / 98 / इति सत्वे स्तेपते / पोपदेशत्वात् षत्वे तिष्टेपे। स्तेपिता / क्ते स्तेपितः / ऋदित्त्वाद् उ अतिष्टेपत् // ... 753 तेपङ कम्पने च / चकारात् क्षरणे / तेपते तितेपे तेपिता। ते तेपितः / ऋदित्त्वाद 20 के न इखः, अतितेपत् // 754 दुवेपृङ 765 केपङ 756 गेपङ 757 कपुङ चलने / वेपते विवेपे वेपिता। ऋदित्त्वाद् न इस्वः, अविवेपत् / द्वित्त्वादथौ वेपथुः / “न ख्या-पूग्-" 2 / 3 / 90 / इति प्रतिवेधाद् णत्वाभावे प्रवेपनम् / उणादौ “विपिना-ऽजिनादयः" (उ० 284) इति इने निपातनात् विपिनं गहनम् // केपङ / केपते केपिता। ऋदित्त्वाद् के अचिकेपत् // . गेपछ / गेपते 25 जिगेपे गेपिता / ऋदित्त्वाद् उ अजिगेपत् // कपुङ / उदित्त्वाद् ने कम्पते चकम्पे कम्पिता। "चल्याहारार्थ-" 3 / 3 / 108 / इति फलवत्कर्तर्यपि ण्यन्तात् परस्मैपदम् , कम्पयति शाखाम् , "गतिबोधा-"२।२।५। इत्यणिकर्तुत्र कर्मत्वम् / भीष्यादिभ्यः 'अ' प्रत्ययेनैव 'भीषा' आदिसिद्धौ 'अ' 1 फण गतौ इत्यस्य // 2 “दिप देष्ट इति च काश्यपः"-मा० धा०प०प० 83 पा• 31 / 'मथु' प्रत्यये। 4 "भीषि-भूषि-चिन्ति" 53104 इत्यादिमूत्रनिर्दिष्टेभ्यः भीष्यादिभ्यो धातुभ्यः॥