________________ आचार्यश्रीहेमचन्द्रविरचितं [भूषादिगणे रुत्वे "रो रे लग्-" 1 // 3 // 41 // इति रो लुक्यस्य दीर्घ च अपास्पाः / “इ-डितो-" 5 / 2 / 44 / इति अने स्पर्धनः / अकर्मकोऽयम् , तेन स्पर्धयति मैत्रमित्यत्र “अणिगि प्राणिकर्तृका-" 3 / 3 / 107 / इति फलवत्कर्तर्यपि परम्मैपदम् “गति-बोधा-" 2 / 2 / 5 / इत्यणिक्कर्तुः कर्मत्वं च / स्पर्धमानः स कृष्णमिति तु कृष्णं प्राप्येत्यध्याहारात् / “बहुलम्" 5 / 1 / 2 / इति इष्णौ 5 "मेरुं म्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा // " [ ] "क्तेटो-" 5 / 3 / 106 / इत्यः, स्पर्धा / घञि स्पर्धः // 743 गाधृङ् प्रतिष्ठा-लिप्सा-प्रन्थेषु / प्रतिष्ठा-आस्पदम् / लब्धुमिच्छा लिप्सा / ग्रन्थनं ग्रन्थः / प्रतिष्ठायामकर्मकोऽयम् , लिप्सा-ग्रन्थयोः सकर्मकः / गाधते जगाधे गाधिता / ऋदित्वाद् डे न इस्वः, अजगाधत् / सनि जिगाधिषते / यङि जागाध्यते / यङ्लुपि जागाधीति ! अचि अगाधम्10 अतलस्पर्शम् / “इ-डितो-" 5 / 2 / 44 / इति अने गाधनः / उणादौ “पदि-पठि-" (उ०६०७) इति इः, गाधिविश्वामित्रपिता // . 744 बाधृङ् रोटने / रोटनं प्रतिघातः / बाधते बबाधे बाधिता / ऋदित्त्वाद् डे न इस्वः, अबबाधत् / "इ-डितो-'" 5 / 2 / 4 4 / इति अने बाधनः / "क्तेटो-" 53 / 106 / इति अः, बाधा। घञि बाधः / बाहुरिति तु “मि-वहि-" (उ०७२६) इति णिति औ वहेः // 16 745 दधि धारणे / दाने इति कौशिकः / दधते देधे दधिता / यङ्लुपि दादधीति दादद्धि / णौ डे अदीदधत् / अचि दधः / उणादौ “पदि-पठि-" (उ० 607) इति इ., दधि // 746 बधि बन्धने / वैरूंप्ये "शान्-दान्-" 3 / 4 / 7 / इति सनि इतो दीर्घ च बीभत्सते। अर्थान्तरे तु बंधते / “न जन-बधः" 4 / 3 / 54 / इति वृद्धयभावे अबधि, बधकः / उणादौ "पदिपठि-" (उ० 607) इति इ., बधिः / बधण् संयमने बाधयति // 20 747 नाधृङ् नाघवत् / उपताप-ऐश्वर्य-आशीर्-याच्नासु अर्थेषु नाचवदयं वर्तते / लाघवार्थमेवं निर्देशः, वर्णक्रमानुसरणात् तु नैकत्राधीतौ / नाधते। अणोपदेशत्वात् “अदुरुपसर्गान्तरो-" 2 / 3 / 77 / इति णत्वाभावे प्रनाधते परिनाधते / येषां तु णोपदेशोऽयं तन्मते प्रणाधते परि. णाधते। ननाधे / नाधिता॥ 1 "बाधृ लोडने। लोडनं प्रतिघातः"-मा० धा० धातुअं० 5 पृ. 37 / 2 वहीं प्रापणे इत्यस्मात् उप्रत्यये इत्यर्थः॥ 3 "दध धारणे / दाने इति केचित् पठन्ति / 'दद दाने' इत्यत्र ‘दद धारणे' इति / तद् अयुक्तम् / “तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरतामृतः। दधते सुलभां शोभां तदीया विभ्रमा इव"। पिबति च पाति च याऽसको रहस्त्वाम् / व्रज विटपममुं ददस्व तस्यै // xxx इत्यादौ दधो धारणार्थत्वस्य अन्यस्य दानार्थत्वस्य च व्यवस्थितत्वात"-माधा०धातुअं. 8 पृ. 4. / 4 निन्दितरूपो विरूपः तस्य भाषा वैरूप्यम् // 5 बन्धनार्थमिदमुदाहरणम् , यदाहुः श्रीहेमचन्द्रसूरिपादाः-"न जन-बधः" 4 / 3 / 54 / सूत्रस्य बृहद्वृत्तौ"बधिरत्र बध बन्धने इत्ययं गृह्यते यस्य बीभत्सत इति वैरूप्ये एव सनिष्यते, अन्यत्र वधते। 'भक्षकश्चन्नास्ति बधकोऽपि न विद्यते' अर्थान्तरेऽपि त्यादयो नाभिधीयन्त इति अगीकुर्वाणाः परस्मैपदिनश्च एतस्यानियमस्त्यादीन् प्रति इति न्यासकारः / अन्ये तु अगणपठितं वधिं हिंसार्थ “यत्र शालप्रतीकाशः कर्णोऽवध्यत संयुगे" इत्यादिदर्शनात् मन्यन्ते, प्रत्युवाहरन्ति च वाध इति" //