________________ मात्मनेधातवः 727-742] स्वोपलं धातुपारायणम् / ___736 पूदि क्षरणे / क्षरणं निरसनम् / “षः सो-' 2 / 3 / 98 / इति सत्वे सूदते सुध्दे सूदिता / असूषुदत् / क्ते निषूदितः / नन्दादित्वादने [मधुसूदनः / अचि सूदः। स्त्रियां गौरादित्वाद् ड्याम् सूदी / शीलाद्यर्थविवक्षायाम् “इ-डितो-"५।२।४४। इत्यस्य "न णिङ्-य-"५।२।४५। इति प्रतिषेधात् तृनि सूदनशीलः सूदिता। खूदण् आस्रवणे सूदयति॥ ____ 737 हादि शब्दे / अव्यक्ते शब्दे इत्यन्ये / अव्यक्तः अपरिस्फुटवर्णः / हादते जहादे हा- 6 दिता / घञि हादः / अचि ह्रदः, पृषोदरादित्वाद् हस्वः // ___738 हादैङ् सुखे च / चकाराच्छन्दे। हादते जहादे हादिता / ऐदित्त्वात् क्तयोर्नेट् , प्रहन्नः प्रहन्नवान् , अत्र "हादो हृद् क्तयोश्च" 4 / 2 / 67 / इति हद् तो नश्च / णौ के आहादितः / तौ प्रहत्तिः / “म-न-य-व-लपरे हे” 1 / 3 / 15 / इत्यनुस्वारानुनासिकयोः किं हादते किल्हादते // ___ 739 पर्दि कुत्सिते शब्दे / पायुध्वनौ वर्तते। अन्ये तु निःशब्दमधोवातं पर्दनं मन्वाना 10 अशब्दे इत्याहुः / पर्दते पपर्दै पर्दिता। "इ-डितो-" 5 / 2 / 44 / इति अने पर्दनः / पृदाकुरिति तु पिपर्तेर्दाकुकि // __740 स्कुदुङ् आप्रवणे / आप्रवणम् उत्प्लुत्य गमनम् आस्कन्दनं वा / उद्धरणमित्यन्ये / उदित्त्वाद् ने स्कुन्दते चुस्कुन्दे स्कुन्दिता / सनि चुस्कुन्दिषते / यङि चोस्कुन्द्यते / यक्लुपि चोस्कुन्दीति / कुन्द इति तु कैवतेर्दे नेऽन्ते च रूपम् // 16 अथ धान्ताः सप्त सेटश्च 741. एधि वृद्धौ। एधते / “उपसर्गस्याऽनिण्-" 1 / 2 / 19 / इत्यत्रैधिवर्जनादुपसर्गावर्णलुगभावे प्रैधते / अकर्मकत्वाद् भावे एध्यते मैत्रेण / सोपसर्गस्तु साप्योऽपि भवति / "गुरुनाम्यादे:-" 3 / 4 / 48 / इति परोक्षाया आमि एधाश्चक्रे / एधिता। ओणे;दित्करणान्नित्यमपि द्विर्वचनं इस्वो बाधते, तेन ऊँ ह्रस्वे द्वित्वे च मा भवानिदिधद् / सनि एदिधिषते / आनशि एधमानः / घनि एधः। उणादौ 20 "अस्" (उ० 952) इति असि एधः एधसी / इन्धेरपि “दशना-ऽवोदै-” 4 / 2 / 54 / इति "येन्धिभ्याम्-" (उ० 968) इति च वचनाद् एध-एधसोः सिद्धिः // 742 स्पर्धि सङ्घर्षे / सङ्घर्षः पराभिभवेच्छा। स्पर्धते भातुः-ात्रा सह स्पर्धा करोतीत्यर्थः / पस्पर्धे / सनि पिस्पर्धिषते / यङि पास्पर्ध्यते / यङ्लुपि पास्पर्धीति / दिवि “यङ्-तु-रु-स्तोः-" 4 / 3 / 64 / इतीति अपास्पर्धीत् / सिर्वि "सेः स्-द्-धां च सर्वा" 4 / 3 / 79 / इति सिवो लुकि धस्य 25 1 क पालन-पूरणयोः इत्यस्मात् धातोः “सृ-पृभ्यां दाकुक' (उ०७५६) इत्यनेन कित् दाकुः प्रत्ययः, पृदाकुः सर्पः गोत्रकृच्च / 2 "आप्रवणम् उत्प्लवनम् उत्प्लुत्य गमनं वा इति तरङ्गिणी / उद्धरणम्इति भोजः"-मा०धा० धातुअं० 9 पृ० 41 / 3 कुंङ् शब्दे अस्माद -तु-कु-सुभ्यो नोऽन्तश्च" (उ०२४०) इति यः नोऽन्तादेशश्च, कुन्दः पुष्पजातिः // 4 अकर्मकोऽयम् / “पराभिभवस्य धात्वर्थेनोपसमहात् , उक्तश्च-"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्। प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया" इति-मा.धा. धातु• 3 पृ. 35 / 5 त्यस्तनभूत-तृतीयपुरुषेकवचने / 6 व्यस्तनभूतद्वितीयपुरुषकक्चने //