________________ 9 आचार्यश्रीहेमचन्द्रविरचितं - [भूषादिगणे गे मुद्गः / “ऋज्यजि-" (उ० 388) इति किति रे मुद्रा। "मुदि-गूरिभ्यां टिनजौ चान्तौ" (उ० 404) इति अरे मुद्गरः मुद्गरी / “शुषीषि-" (उ० 416) इति किति इरे मुदिरो मेघः / मुदण् संसर्गे मोदयति // ___727 ददि दाने। धारणे इति कौशिकः / ददते। "अनादेशादे:-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 4 / 1 / 30 / इति प्रतिषेधात् दददे / ददिता // ____728 हदिं पुरीषोत्सर्गे। हदते / जहदे / अनुस्वारेत्त्वाद् नेट् , हत्ता हत्तुम् / सनि जिहत्सते / "इ-डितो-" 5 / 2 / 44 / इति अने हदनः / / 5 729 ष्वदि 730 वर्दि 731 स्वादिआस्वादने / आद्यः षोपदेशो( ऽयम् ) नेतरौ। यत् स्मृतिः-स्वरदन्त्यपराः षोपदेशाः स्मि-स्विदि-स्वदि-स्वञ्जि-स्वपयश्च। सृपि-सृजि-स्तृ-स्तृ-स्त्यासेक-सृर्जम् / आस्वादनं जिह्वया लेहः। चैत्राय स्वदते / सस्वदे। षोपदेशत्वात् षत्वे असिष्वदत् / सनि षत्वापन्ने "णि-स्तोरेवा-" 2 / 3 / 37 / इत्यत्र वर्जनाद् ण्यन्तस्य षत्वाभावे सिस्वादयिषति / “णिस्तोरेवा-" 2 / 3 / 37 / इति नियमात् सनि षत्वाभावे सिस्वदिषते / “इ-ङितो-" 5 / 2 / 44 / इति 10 अने स्वदनः / उणादौ "कृ-वा-पा-जि-"(उ०१) इति उणि स्वादुः / वदण् आस्वादने स्वादयति // खदि / स्वर्दते / अषोपदेशत्वात् षत्वाभावे सिस्वर्दयिषति, असिस्वर्दत् / स्वर्दिता // खादि / स्वादते / सस्वादे / अषोपदेशत्वात् षत्वाभावे असिस्वदत् / सनि सिस्वादिषते // 732 उर्दि मान-क्रीडयोश्च / चकारात् आस्वादने / मोनं मितिः / “भ्वादेः-" 2 / 1 / 63 / इति दीघे ऊर्दते / “गुरुनाम्यादेः-" 3 / 4 / 48 / इति परोक्षाया आमि ऊर्दाश्चक्रे / “अयि रः" 16 4 / 1 / 6 / इति रस्य प्रतिषेधात् "स्वरादेः" 4 / 1 / 4 / इति देरेव द्वित्वे सनि ऊर्दिदिषते / अचि स्त्रियां गौरादित्वाद् ड्याम् ऊर्दी विमानम् // 733 कुर्दि 734 गुदि 735 गुदि क्रीडायाम् / “भ्वादेः-" 2 / 1 / 63 / इति दीर्धे कूदते चुकूर्दे / कूर्दिता // गुर्दि।] गूर्दते / जुगूदें। गर्दिता / गुर्दिस्थानेज्ये खुदि पेठुः / खूर्दते चुखूर्दे / गुर्दण् निकेतने गूर्दयति // गुदि / गोदते जुगुदे / “वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति क्त्वा20 सनोर्वा कित्त्वे गुदित्वा गोदित्वा, जुगुदिषते जुगोदिषते / “नाम्युपान्त्य-" 5 / 1154 / इति के गुदं स्त्रीणामपाङ्गम् / कल्याणं गुदमस्याः क्रोडादित्वाद् ड्यभावे कल्याणगुदा। गुदिस्थाने गुधिमेकेऽध्यैषत // 1 "किश्चिद् उद्दिश्य अपुनर्ग्रहणाय स्वीयत्यागो दानम्"-मा• धा० धातुअं० 17 पृ. 43 / 2 "संवरणे इति क्षीरस्वामी। आस्वादनम्-अनुभवः"-मा० धा० धातुअं० 18 पृ. 43 / 3 वर्जाः। आ संपा१ वा० // 4 असिस्वईत संपा१ वा० प्र० नास्ति // 5 "इह मानं सुखमिति सम्मतायाम, क्रीडायामकर्मकः" इतिमा०धा० पृ. 44 धा. 2. // 6 देरेव-दिकास्स्यैव / ७"अत्र कैयट-पुरुषकार-मैत्रेयादिषु तृतीयो न पठ्यते / संमतामोघाविस्तार-चान्द्रषु तु त्रयोऽपि पठ्यन्ते / गुदक्रीडा गुदविहार इति चरके"। -मा. भा० धातुअं० 24 पृ. 44 / 8 "स्फूर्जेीर्वोपदेशात् "भ्वादे-" 21163 / इति दीर्घ एषां न इति बन्द्रः -मा.धा..पृ. 44 धा० 24 // 9 गुदि संपा१ वा० नास्ति /