________________ आत्मनेधातवः 717-726] स्वोपझं धातुपारायणम् / कामवृक्षश्च / “न णिङ्-य-" 5 / 2 / 45 / इत्यत्र दीपिग्रहणादसरूपे अने वन्दनः / “णि-वेत्ति-" 5 / 3 / 111 / इति अने वन्दना / उणादौ “पदि-पठि-" (उ० 607) इति इः, बन्दिम्रहणिः // ___722 भदुङ् सुख-कल्याणयोः / सुखं सद्वेद्यकर्मोदयाच्छुभानुभवनम् / कल्याणं श्रेयः / प्रीतावप्यन्ये / प्रीतिर्मोहनीयविपाकः / उदित्त्वाद् ने भन्दते / बभन्दे / भन्दिता / “इ-ङितो-'" 5 / 2 / 44 / इति अने भन्दनः / उणादौ “सीमन्त-हेमन्त-" (उ० 222) इति अन्ते निपातनात् भदन्तः। 5 "भन्देर्वा"(उ०३९१) इति रे वा नलुकि च भद्रं भन्द्रं च सुख-कल्याणे / चुरादौ भडुण कल्याणे दान्त इत्येके भन्दयति // 723 मदुङ् स्तुति-मोद-मद-स्वप्न-गतिषु / मोदो हर्षः / मदो दर्पः / स्वमेन आलस्यमपि लक्ष्यते / चन्द्रस्तु मदि जाड्ये इत्येवाह / मोद-मद-स्वप्नेप्वकर्मकोऽयम् , स्तुति-गत्योः सकर्मकः / उदित्त्वाद् ने मन्दते। ममन्दे / भन्दिता / अचि मन्दः / स्त्रियां “जातेरयान्त-"२।४।५४। इति, यौव- 10 नावस्थावृत्तौ तु "वयस्यनन्त्ये" 211 / 21 / इति ङीप्राप्तौ “अजादेः" 2 / 4 / 16 / इति आपि मन्दा स्त्रीजातिः युवतिर्वा / उणादौ "शलि-बलि-पति-" (उ० 34) इति आके मन्दाकः / मत्वर्थीये इनि मन्दाकिनी / “भी-वृधि-” (उ० 387) इति रे मन्द्रं गम्भीरम् / मद्रमिति तु माद्यतेः / “ऋच्छिचटि-" (उ० 397) इति अरे मन्दरः शैलविशेषः / “अग्यङ्गि-" (उ० 4 05) इति आरे मन्दारो देववृक्षः / “मदि-मन्दि-" (उ० 412) इति इरे मन्दिरं सद्म / मदिरेति तु माद्यतेः / 15 "वाश्यसि-" (उ० 423) इति उरे मन्दुरा वाजिशाला / / 724 स्पदुङ् किश्चिच्चलने / उदित्त्वाद् ने स्पन्दते / पस्पन्दे। स्पन्दिता। णिगन्तात् फलवत्कतर्यपि "चल्याहारार्थेङ-"३।३।१०८। इति परम्मैपदम्, स्पन्दयति / घञि स्पन्दः / “चालशब्दा र्थाद्-" 5 / 2 / 43 / इति अने स्पन्दनो वृक्षविशेषः / __ 725 क्लिदुङ् परिदेवने। परिदेवनं शोचनम् / उदित्त्वाद् ने क्लिन्दते / क्लिन्दिता। क्लिदु परि देवने क्लिन्दति / गित्त्वमकृत्वोभयत्र पाठस्तु फलवत्यपि कर्तरि परम्मैपदार्थः अफलेऽप्यात्मने- 20 पदार्थश्च // 726 मुदि हर्षे / अकर्मकोऽयम् / मोदते / मुमुदे। मोदिता। क्ते मुदितः / “वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते / णौ मोदयति चैत्रम् , अत्र "अणिगि-" 3 / 3 / 107 / इति फलवत्कर्तर्यपि परस्मैपदं “गति बोधा-ऽऽहारार्थ-"२।२।५। इत्यणिक्कर्तुः कर्मत्वं च / मूलविभुजादित्वात् के कुमुदम् / “तिक्कृतौ नाम्नि" 5 / 1 / 71 / इत्यानशि 25 मोदमानः कोऽपि यामः / णके मोदयतीति मोदकः / "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मुदः / "इ-डितो-" 5 / 2 / 44 / इति अने मोदनः / उणादौ "पू-मुदिभ्यां कित्" (उ० 93) इति किति 1 "स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु इति / चन्द्रस्तु मदि जये इत्यपि पपाठ"-मा०या० पृ०४२ धा. 3 // 2 ते / स्पन्दितुम् / णिग' खे० संपा१ वा० सं२ // 3 "भूलविभुजादयः" 5 / 1 / 144 // इति सूत्रेण / /