________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे नियमस्तन्मते सोपसर्गस्यार्थान्तरेऽप्यात्मनेपदं न विरुध्यते / अणोपदेशश्चायम् / यदाह-"सर्वे नादयो णोपदेशा नृति-नन्दि-नर्दि-नक्कि नाटि-न-ना-नाथूवर्जम्" इति, तेन “अदुरुपसर्गा-' 2 / 3 / 77 / इति णत्वाभावे प्रनाथते / अचि नाथः / “इ-डितो-'" 5 / 2 / 44 / इत्यने नाथनः // 717 श्रथुङ् शैथिल्ये। तालव्यादिः / शैथिल्यम् अगाढता। उदित्त्वाद् ने श्रन्थते। श्रन्थ्यते। 5 श्रन्थिता / शश्रन्थे, अत्र “वा श्रन्थ-ग्रन्थो न्लुक् च"४।१।२७। इत्यत्रौपदेशिकस्य श्रन्थो ग्रहणाद् वा एत्व-नलुको न भवतः; अन्ये त्वत्रापीच्छन्ति / “दशनाऽवोदधौद्म-" 4 / 2 / 54 / इति घञि निपातनात् प्रश्रथः हिमश्रथः / “णि-वेत्ति-" 5 / 3 / 111 / इति अने श्रन्थना / उणादौ "श्रन्थेः शिथ् च" (उ० 414) इति इरे शिथिरम्, लत्वे शिथिलम् // 718 ग्रथुङ् कौटिल्ये / कौटिल्य कुसृतिर्बन्धश्च / उदित्त्वाद् ने ग्रन्थते / जग्रन्थे / ग्रन्थिता। 10 "णि-वेत्ति-" 5 / 3 / 111 / इति अने ग्रन्थनेत्येके। श्रन्थश् मोचन-प्रतिहर्षयोः, ग्रन्थश् सन्दर्भ, श्रथ्नाति श्रथ्यते, अथ्नाति प्रथ्यते / “वा श्रन्थ-ग्रन्थो नलुक् च" 4 / 1 / 27 / इति वा एत्वे नलुकि च श्रेथतुः शश्रन्थतुः, ग्रेथतुः जग्रन्थतुः / श्रन्थ ग्रन्थण सन्दर्भ, “युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि श्रन्थयति श्रन्धति / ग्रन्थयति ग्रन्थति / श्रेथतुः शश्रन्थतुः, प्रेथतुः जन न्थतुः / “एकधातौ-" 3 / 4 / 86 / इत्यात्मनेपदे "भूषार्थ-'' 3 / 4 / 93 / इति भि-क्ययोरभावे च 16 कर्मकर्तरि त्रयाणामपि श्रन्थते श्रध्नीते अश्रन्थिष्ट वा स्वयमेव, एवं ग्रन्थते प्रथ्नीते अग्रन्थिष्ट / उणादौ “पदि-पठि-" (उ० 607) इति इः, श्रन्थिम्रन्थिश्च पर्वसन्ध्यादिः // 719 कत्थि श्लाघायाम् / श्लाघा गुणारोपः / कत्थते / चकत्थे / कत्थित्वा / “इ-डितो-" 5 / 2 / 44 / इति अने कत्थनः / “वेर्विच-" 5 / 2 / 59 / इति घिनणि विकत्थी। “न णिङ्-य-" 5 / 2 / 45 / इत्यत्र दीपिग्रहणेन ताच्छीलिकेष्वप्युत्सर्गसमावेशस्य ज्ञापनादने विकत्थनः // अथ दान्ता एकविंशतिर्हदिवर्जा सेटश्च 720 श्विदुङ् श्वैत्ये / श्वैत्यं श्वेतगुणक्रिया / उदित्त्वाद् ने श्विन्दते; कोऽर्थः ? यदि सकर्मकस्तदा श्वेतीकरोतीति, अथाकर्मकस्तदा श्वेतीभवतीति; श्वेतगुणः सिद्धोऽप्याख्यातेन साध्यैकरूप उच्यते, कृतानुसाध्योऽपि सिद्धतया पाकादिवत् शब्दशक्तिस्वाभाव्यात् / क्ये श्विन्द्यते / क्ते श्विन्दितः। 721 वदुङ् स्तुत्यभिवादनयोः / स्तुतिर्गुणैः प्रशंसा। अभिवादनं पादयोः प्रणिपातः। उदि25 त्वाद् ने वन्दते, देवान् स्तोतीत्यर्थः / ववन्दे गुरून् , अभिवादितवानित्यर्थः / वन्दिता ।अचि वन्दी हठाकृष्टा स्त्री / ग्रहादित्वाद् णिनि वन्दी मङ्खः / “श-वन्देरारुः" 5 / 2 / 35 / वन्दनशीलो वन्दारुः 1 आचार्यहेमचन्द्रस्तु-"नृति-नन्दि-नर्दि-नशि-नाटि-नक्कि-नाधू-ना-नवर्जम्" इत्येवं (2 / 3 / 97 सूत्रवृत्तौ) उल्लिखन् अत्र नव धातून गणयति / अत्र विषये विविधमतानि जिज्ञासुना मा. पा. पृ० 37 धातुअंक 6-7 विवरणं विझेयम् / 20