________________ आत्मनेधातवः 705-716] स्वोपचं धातुपारायणम् / इति इके आपणिकः पत्तनवासी / “प्राङः पणि-" (उ० 42) इति इके प्रापणिको वणिक् / "कमि-वमि-” (उ० 618) इति णित् इ:, पाणिः। "भृ-पणिभ्यामिज भुर-वणौ च" (उ० 875) वणिक् / प्रज्ञाद्यणि वाणिजः // अथ तान्तात्रयः सेटश्च७११ यतैङ् प्रयत्ने / यतते / येते / यतिता। ऐदित्त्वात् क्तयोनेंट् , यत्तः आयत्तः यत्तवान्। b "यजि-स्वपि-" 5 / 3 / 85 / इति ने यत्नः / उणादौ "पदि-पठि-" (उ० 607) इति इ., यतिः / “यति-ननन्दिभ्यां दीर्घश्च" (उ० 856) इति ऋः, याता देवरभार्या / "तृ-स्वस–” 1 / 4 / 38 / इत्यत्र तुः सार्थकस्य ग्रहणात् आर्-अभावे यातरौ / यतण निकार-उपस्कारयोः यातयति / / 712 युतृङ् 713 जुतृङ् भासने। योतते। युयुते / योतिता। ऋदित्वाद् के न ह्रस्वः, अयुयोतत् // * जुतृङ् / जोतते / जुजुते / जोतिता / ऋदित्त्वाद् डे न ह्रस्वः, अजुजोतत् / जुतू 10 भासने जोतति; ऋदित्त्वाद् वाऽङि अजुतत् अजोतीत् / कौशिकस्तु 'ज्योतिः' सिद्धये जुतिस्थाने ज्युतिमधीते, तदसत् , " द्युतेरादेश्च जः" (उ० 991) इति सिद्धत्वात् // अथ थान्ताः षद् सेटश्च७१४ विशृङ् 715 वेशृङ् याचने / वेथते / विविथे। विथितः / ऋदित्त्वाद् के न हस्वः, अविवेथत् // वेथूङ / वेथते। विवेथे। वेथितः / ऋदित्त्वाद् डे न हूस्वः, अविवेथत् / कौशिकस्तु 16 'विथुर'सिद्धये यातने इत्याह, तन्न, व्यथेरेव "श्वशुर-" (उ० 426) इति उरे निपातनात् सिद्धेः / / 716 नाङ उपताप-ऐश्वर्य-आशीःषु च / चकारात् याचने। उपताप उपधातः / अत्र याच्याउपतापौ क्रियात्वात् अर्थो,ऐश्वर्य-आशिषौ तु धर्ममात्रत्वाद् द्योत्ये / यद्वा 'गण्डति, श्वेतते प्रासादः, घण्टा ध्वनति, संयुज्यते, अस्ति, समवैति' इति द्रव्य-गुण-संयोग-सत्ता-समवायानामिव सिद्धानामप्याख्यातवाच्यत्वेन साध्यतया प्रतीतेरनयोरर्थत्वमप्यस्तु / यदाह-“पूर्वापरीभूतं भावमाख्यातेनाचष्टे" / [] 20 सर्पिषो नाथते सर्पि थते, सपि भूयादित्याशास्ते, “नाथः” 2 / 2 / 10 / इति कर्मणो वाऽकर्मत्वे "शेषे” 2 / 2 / 81 // इति षष्ठी। "आशिषि नाथः" 3 / 3 // 36 // इत्याशिष्येवात्मनेपदनियमादर्थान्तरे परस्मैपदमेव, रिपुं नाथति–उपतपति / स्वामी नाथति-ईष्टे, नृपं नाथति-याचते, एष्वात्मनेपदाभावात् "नाथः" 2 / 2 / 10 / इति कर्मणो वा अकर्मत्वाभावे "कर्मणि" 2 / 2 / 40 / इति द्वितीयैव / कथम् "एतन्मन्दविपक्कतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त ! पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते। 25 तत् पल्लीपतिपुत्रि ! कुञ्जरकुलं जीवाभयाभ्यर्थनाद्दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः" / / काव्यप्रकाशे उल्लास 7 श्लो० 142 पृ० 269 पूना] अपपाठ एषः, “अनुनाथति स्तनयुगं पत्रांशुकर्मा पिधाः" इति त्वभियुक्तः / येषां चानुपसर्गस्य 1 "उपतापो रोगः इति वृत्तौ / उपघात इति तरङ्गिण्याम्" इति माधव० धा० पृ. 37 धातु 0 // 2 स्वामपनाथते सं१ सं२ तपा०॥ पा.पा. 1