________________ आचायश्रीहेमचन्द्रविरचितं [भूवादिगणे अथ णान्ताः षट् सेटश्च 705 घिणुङ् 706 घुणुङ् 707 घृणुङ्ग्रहणे / उदित्त्वाद् ने घिण्णते जिघिण्णे। घिण्णिता // घुण्णते। जुघुण्णे / घुण्णिता // घृण्णते / जघृष्णे / घृण्णिता / यङि जरीघृण्ण्यते / वनि "वन्याङ् पञ्चमस्य" 4 / 2 / 65/ इत्यत्र पञ्चमस्येति जातिपरिग्रहाद् णद्वयस्याप्याङादेशे आङो ङित्वाद् गुणाभावाद् यत्वे सुध्यावा; व्यक्तिपरिग्रहे त्वन्त्यस्यैव आत्वे सुधिनावा / एवं शेषयोरपि / विपि "पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे सुघिन्नित्यादि / 708 घुणि 709 घूर्णि भ्रमणे / घोणते जुघुणे घोणिता / लिहायचि घोणा। "नाम्युपान्त्य" 5 / 1 / 54 / इति के घुणः / वनि “वन्याङ् पश्चमस्य" 4 / 2 / 65 / इति आङादेशे ङित्त्वाद्गुणाभावे चावा॥ घूर्णि। घूर्णते। जुघूर्णे / घूर्णिता / वनि आङि घूरावा / घुण घूर्णत् भ्रमणे घुणति / घूर्णति // . 710 पणि व्यवहार-स्तुत्योः / “गुपौ-धूप-" 3 / 4 / 1 / इति आये पणायति / आयान्तस्येङित्त्वाभावात् "शेषात्परस्मै" 3 / 3 / 100 / इति परस्मैपदम् / “विनिमेय-द्यूतपणम्-" 2 / 2 / 16 / इति कर्मणो वा कर्मत्वे "शेषे” 2 / 2 / 81 / इति षष्ठयाम् शतस्य पणायति / स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहणात् पणिरेवायम् ।'ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थात् शवि अपि आया. भावे शतस्य पणते / “अशवि ते वा" 3 / 4 / 4 / इति वा आये पणायाञ्चकार पेणे, पणायिता पणिता / " न चोपलेभे वणिजां पणायाः " [भट्टिकाव्ये स० 3 श्लो० २७]अत्र 'शंसिप्रत्ययात्" 5 / 3 / 105 / इति अः / “वर्योपसर्या-" 5 / 1 / 32 / इति निपातनाद् ये पण्यं विक्रेयम् ; अन्यत्र व्यणि पाण्यः साधुः। “पणेर्माने" 5 / 3 / 32 // इति घञपवादे अलि शाकपणः / “गोचर-सञ्चर-'" 5 / 3 / 131 // इत्याधारे च घञपवादे घे एत्य तत्र पणायन्तीति आपणः / उणादौ "आङः पणि-" (उ० 39) 1 जयादित्यप्रभृतयः इति लघुन्यासकारः 341 सूत्रन्यासे / तथा च 3 / 1 / 26 / सूत्रे काशि. कायाम्-'स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः' इति / 'पणेः स्तुतावेव आयप्रत्ययः' इति च मिताक्षरा-माधव० धा० पृ. 89 धातुअं० 435 / तरङ्गिणीकारोऽपि मिताक्षरामनुसरति / / 2 भट्टिकाव्ये "न चोपलेमे वणिजां पणाऽऽयान्" इति पाठो लभ्यते। भट्टिकाव्यटीकाकारः श्रीजयमङ्गलसूरिः "पणाऽऽयान्' पदं व्याचक्षाणः पणानाम् अयाः-लाभाः-तान् पणाऽऽयान्-व्यवहारलाभान् इत्येवं निरूपयति / ततस्तन्मते 'पणाऽऽयान्' पदे नास्ति "गुपौ-धूप-" 3 / 4 / 1 / इति सूत्रेण विहितः आय-प्रत्ययः / अतः माधवीयधातुवृत्तौ (पृ० 89 धातुअंक 435) प्रस्तुतपद्यगतं 'पणाऽऽयान्' पदम् आय-प्रत्ययान्तं मन्यमानेन श्रीतरङ्गिणीकारेण या भट्टिकवेः भ्रान्तता निरूपिता सा निराधारा / अथ च टीकाकारः श्रीजयमङ्गल: 'पणायाम्' इतिरूपं अन्यं पाठं निर्दिशति स्तुतिरूपं च तदर्थ निबध्नाति ततोऽपि तरङ्गिणीकारस्य आक्षेपः विफलः / यदि 'पणायाम्' पदस्य केनापि व्यवहाररूपः अर्थः निर्दिष्टो भवेत् तदा स्तुत्यर्थादेव आयप्रत्ययं मन्वानस्य मते 'पणा याम् पदम् अपपदं भवेत् / न चात्र तथा / 'वणिजां प्रलापान्' इति तृतीयोऽपि पाठः श्रीजयमालेन निरदेशि / हेमचन्द्रस्तु 'पणाया' इति आयप्रत्ययान्तमखण्डं पदं मन्यते तस्य च द्वितीयाबहुवचनमेतत् 'पणायाः' इति /