________________ आत्मनेधातवः 686-704] स्वोपझं धातुपारायणम् / 695 तुडुङ् तोडने / तोडनं हिंसा / उदित्त्वाद् ने तुण्डते। तुतुण्डे / तुण्डिता / तुण्ड्यते / अचि घञि वा तुण्डम् / उणादौ "किलि-पिलि-" (उ० 608) इति इः, तुण्डिः प्रवृद्धा नाभिः // 696 भुडुङ् वरणे / वैरणं स्वीकरणम् / उदित्त्वाद् ने भुण्डते / बुभुण्डे। भुण्डिता / अचि भुण्डो धृष्टः // 697 चडुङ्कोपे / उदित्त्वाद् ने चण्डते / चचण्डे / चण्डिता / अचि चण्डः, स्त्रियां शोणादित्वाद् वा ड्याम् चण्डी चण्डा / उणादौ "ऋ-कृ-मृ-" (उ० 475) इति आले चण्डालः / चड्डुङ् कोपे चण्डयति // 698 द्राङ् 699 धाडङ् विशरणे / द्राडते / दद्राडे। द्राडिता // ध्राड्रङ् / धाडते / दधाडे / धाडिता / ऋदित्त्वाद् डे न ह्रस्वः, अदद्राडत् / अदधाडत् // 700 शादृङ् श्लाघायाम् / तालव्यादिः / शाडते / शशाडे / ऋफिडादित्वाइस्य लत्वे शालते / ऋदित्वाद् डे न ह्रस्वः, अशशाडत् / अचि शाला / “अजाते:-" 5 / 1 / 154 / इति णिनि गुणशाली / शालिरिति तु शेलेरौणादिके णौ रूपम् / शालूकमित्यपि शलतेणूके // 7.1 वाट्टङ् आप्लान्ये / आप्लाव्यमाप्लावनम् / वाडते / ववाडे / वाडिता / ऋदित्त्वाद् डे न ह्रस्वः, अववाडत् / अचि ऋफिडादित्वाद् डस्य लत्वे वालः / वडवेति तु वडेः सौत्रस्य अवे रूपम् // 702 हेड्रङ् 703 होडुङ् अनादरे। हेडते / जिहेडे / हेडिता / ऋदित्त्वाद् डे न इस्वः, अजिहेडत्। घञि हेडः, "हेड-प्रसादौ प्रभोः" [ ] ।क्ते सेट्त्वात् "क्तेटो-'" 5 / 3 / 106 / इति अः, ऋफिडादित्वाच लः, हेला / घटादौ हेड वेष्टने हेडति / णौ हस्वे हिडयति // होडण / होडते / जुहोडे / होडिता / ऋदित्त्वाद् डे न ह्रस्वः, अजुहोडत् / "क्तेटो-" 5 / 3 / 106 / इति अः, होडा / अचि होडः // 704 हिडुङ्गतौ च / चकारादनादरे / उदित्त्वाद् ने हिण्डते। जिहिण्डे / हिण्डिता / यङि जेहिण्ड्यते / यङ्लुपि जेहिण्डीति, “तवर्गस्य-" 1 / 3 / 60 / इति तस्य टत्वे "धुटो धुटि-" 1 // ३॥४८इति धुटो लुकि जेहिण्टि / “इडितो-" 5 / 2 / 44 / इति अने हिण्डनः / गत्यर्थत्वात् कर्तरि ते हिण्डितः / उणादौ "किलि-पिलि-" (उ० 608) इति इः, हिण्डिः रात्रौ रक्षाचारः / / / घरणे इति माधव० धा० पृ. 74 धातुअं० 274 / 2 हरणमिति मैत्रेयः-माधव० पा० पृ. 74 धातुअं• 274 // 3 गौरीवाचकश्चण्डीशब्दो नात्र द्रष्टव्यः किन्तु कोपनावाचकः। गौरीवाचकस्य तु “गौरादिभ्यो मुख्यान् कीः" 21489 / इति नित्यं छीः। अत्र तु "नवा शोणादेः" 24 // 31 इत्यनेन // 4 ऋफिडादीनां डश्च लः” / 2 / 3 / 104 // 5 शल गतौ इन्यस्मात् “कमि-चमि-जमि-घसिशलि-फलि-" (उ० 618) इति णिः, शालि: व्रीहिराजः // 6 शल्यर्णित् (उ० 59) इत्यनेन शल गतौ इत्यस्य णिति ऊके शालूकं जलकन्दो बलवांश्च // 7 वड आग्रहणे इत्यस्य "वडि-वटि-पेलचणि-पणि (उ• 515) इति अवे वडवा अश्वा / /